This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
४ १
 
D, D2, Bm, Mg प्रतिषेधयती ; D, निषेधितवती • ( ६ ) D, मुग्धा
( ७ ) D, विरमति; D, Bm चिरायति; Dg चिरे याते सति
 
अपराधिनं नायकं कुपिता प्रिया उपालभते ।
प्रातः प्रातरुपागतेन जनिता निर्निद्रिता चक्षुषो
मन्दाया सम गौरवन्यपनयादुत्पादितं लाघवं ।
किं मुग्धेन कृतं त्वया मरणभीर्मुक्ता मया गम्यतां
 
दुःखं तिष्ठसि यच्च पथ्यमधुना कर्तास्मि तच्छ्रोष्यसि ॥३०॥
(a ) Ds, निर्णिद्रिता, O, Oa, T निर्निद्रिता (b) Oa • दुत्पातितं
{ c ) D1, D2, D2, Ds, Bm, T, Mg, Mt रमणभी: (d) Mg
तिष्ठतु ; D2, D3 तिष्ठति
 
Coming every day at the break of dawn, thou bast
robbed my eyes of sleep; I feel very light in my body as
thou hast helped to remove the heaviness of my drooping
spirits ; ( listless that I am, my sense of self-respect is
lost and I am made to look small.) Innocent that you are, you
have done nothing improper. I have discarded the fear of
death. Now go, thou art in pain. What I would do towards my
cure, that with thou hear later on. ( 30 )
 
प्रातः प्रातः उषसि उषसि उपागतेन समागतेन त्वया चक्षुषोर्मम नेत्रयोः
निर्निद्रता निद्राहानिर्जनिता उत्पादिता । किं च गौरव्यपनयात् गुरुत्वनिर्हरणात्
मन्दाया भाग्यहीनाया मम । मूढाल्पापटुनिर्भाग्या मन्दाः स्युरित्यमरः । लाघवं
लघुत्वं उत्पादितं जनितम्। मुग्धेन अज्ञानकैतवेन त्वया किंकृतमयुक्तं किमपि
नाचरितम् । इदं वाक्यमपह्नवे । किं तु मरणंभीः मरणभीतिः मुक्ता त्यक्ता ।
मयैव भयं विहाय एवमुक्तमित्यर्थः । दुखं संक्लेशं तिष्ठसि । गम्यतां गमनं
क्रियताम् । अधुना इदानीं ते यत्पथ्यमिष्टं तत्कर्तास्मि आचरितास्मि । त्वं च
श्रोष्यसि आकर्णयिष्यसि । इति संबन्धः । अत्र यत्पथ्यं तत्कर्तास्मि इति वाक्येन
गम्यमानेन मरणोद्योगसूचनेन इतःपरं एवं त्वया न कर्तव्यं इति निषेधो गम्यते ।