This page has not been fully proofread.

३२
 
अमरुशतकम्
 
व्याजीकृत्य हसितं हासः कृतः । तया तु धृतिहरो मम स्थैर्यहरो बाप्पो
मुक्त इति संबन्धः । अत्र हसितमित्यनेन तद्भावपरीक्षार्थमेव मया तूष्णी
स्थितम् । तया किमिति कुप्यत इति अयमथों गम्यते । बाप्पो मुक्त इत्यनेन
कोपभावशान्तिः । नायिका स्वीया मुग्धा च । यथोक्तं दशरूपके - मुग्धा
नववयःकामा रतौ वामा मृदुः क्रुधि । इति । नायकस्तु अनुकूलः । प्रणय-
मानानन्तरं संभोगैः । सहास्यं गृङ्गारि नर्म । युक्तिरलंकारः ।
 
( १ ) D. धैर्यहरो ( २ ) D, त्वं किमिति कुप्यसि इत्ययमर्थो ।
D, Mg त्वया किमिति कुप्यते इत्य० ; Bm मया किमिति कुप्यते etc.
( ३ ) D,D, संभोगशृङ्गारः.
 
कवेर्वाक्यम्-
 
एकस्मिन् शयने विपक्षरमणीनामग्रहे मुग्धया
 
सद्यः कोपपराङ्मुखग्लपितया चाटूनि कुर्वन्नपि ।
आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं
 
मा भूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥ २३ ॥
 
(d ) D माभूदागत इत्यमन्द ; D, D2, Dg, Da, O, T, Mg
पुनर्वीक्षितम् ।
 
At the utterance of the name of a rival beloved, the
beautiful one, reposing on one and the same bed with her
lover, suddenly turns her back on him in anger feeling wilted
and notwithstanding his bland honeyings she rejects him
in her excitement ; when, however, he kept quiet, she
immediately turns her neck briskly and looks at him lest
he should grow languid (in sleep ). ( 23 )
 
एकस्मिन् शयने एकशय्यायां विपक्षरमणीनामग्रहे सपत्नीनामग्रहणे सति
सद्यः सपदि कोपपराङ्मुखग्लपितया कोपेन पराङ्मुखा च ग्लपिता च तया
मुग्धया रमण्या प्रियतमश्चाटूनि सान्त्ववचनानि कुर्वन्नपि आवेगात् संभ्रमात् ।
आवेगः संभ्रमस्त्वरा इत्यमरः । अवधीरितो निरस्तो भूत्वा तत्क्षणं तूष्णी