2025-04-20 14:32:10 by ambuda-bot
This page has not been fully proofread.
१८
अमरुशतकम्
कार्या न कर्तव्या । यतो नितरां अत्यर्थ कृशासि का भजैसि । एवमनेन
प्रकारेण सबाप्पे मयि कथयति सति तथा लज्जामन्थरतारकेण लज्जया
मन्थरा मन्दचारिणी तारका कनीनिका यस्य तत् तथोक्तम् । निपतत्पी -
ताश्रुणा निपतन्ति स्रवन्त्येव पीतानि निरुद्धानि अश्रूणि यस्य तत्तथोक्तम् ।
तेन चक्षुषा मां दृष्ट्वा हसितेन शुष्कहासेन भाविमरणोत्साहः भविष्यन्-
मरणे स्थेयन् प्रयत्नः सूचितः ज्ञापित इति संबन्धः । प्रियस्य गमैनं
श्रुत्वापि जीवामीति यत्तदिदं तादृशप्रेमयुक्ताया मम अनुचितमिति लज्जा ।
नितरां कृशासीत्युक्ते प्रियगमनानन्तरं जीवन्त्याः खलु कायै न ममेति
तद्वचनं स्वगतमाक्षिप्य हसितं कृतम् । रोदनेन स्वतये ज्ञायत इति अश्रु-
निरोधः ः कृतः इत्यवगन्तव्यम् । अत्र निर्वेदो नाम संचारी भावः । यथोक्तम्-
इष्टार्थविरहव्याधिक्रोधतत्वावबोधनैः । दारिद्यताडनाक्षेपपरवृध्यावलोकनैः ।
निन्दापवादमानैश्च निर्वेदो निष्फलत्वधीः ॥ अन्तर्वाष्पोद्गमध्याननिश्वासस्वाव-
माननैः । दैन्यगद्गदवैवण्यैरभिनेयो भवेदयमिति । स्वीया प्रगल्भा न्त्र
नायिका, नायकोऽनुकूलः । एकार्यत्तोऽनुकूलः स्यादिति । भाविप्रवासविप्र-
लम्भगृङ्गारः । अत्रात्मोक्षेपरूपं गृङ्गारि नर्म । आत्मोपक्षेपसङ्गेच्छामानैः
शृङ्गार्यपि त्रिधेत्युक्तत्वात् । आक्षेपोऽलंकारः ।
( १ ) D,Mg, Mt किं न संगच्छन्ति ; Bm किं स्वभवनं न
गच्छन्ति ( २ ) D, लभसे ( ३ ) D3 explains प्रियाकार्श्यजन्य-
दुःखोद्भूतबाष्पे इत्यर्थः
स्थिर प्रयत्न: ( ५ ) D,, D,
( ४ ) D
Ds, Mt गमनप्रसङ्गं ( ६ ) Do स्वकार्य ( ७ ) De • प्रनृत्यन्ता •
°
Bm • परिवृत्या ० ( ८ ) D, Do एकायतो.
नामिका सखीभिमानकरणाय बोधिता तत्कर्तुमशक्ता सती ताः प्रत्याह-
तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता पादयो-
स्तत्संलापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया ।
पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्रमो गण्डयोः
सरन्यः किं करवाणि यान्ति शतधा मत्कञ्चुकीसंघयः ॥ १२ ॥