This page has not been fully proofread.

अमरुशतकंम
 

 
तन्च्या यत्सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्यये

तत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्देवतैः ॥ ३ ॥
 

 
(a ) D2, D 3, Ds, U, Bm, Mg.
 

 
• वलि
 

 
The countenance of the slender one, during the enjoy-

ment of love in a reverse posture, with the fluttering dis-

hevelled locks, with the swinging ear-pendants, with the

forehead-mark a little blurred by the fine beads of per-

spiration, with the eyes grown languid at the end of the play

of love--may that countenance preserve thee long! What

need is there of Visnu, Siva, Brahman and other gods ? ( 3 )
 

 
तन्व्यास्तद्वक्त्रं त्वां चिराय पातु रक्षतु । अत्र रक्षणं नाम सुखजनक-

त्वम् । हरिहरब्रह्मादिभिर्दैवतैः किं प्रयोजनमिति संबन्धः । कीदृशं वक्त्रम् ।

यत् रतिव्यत्यये पुरुषायिते आलोलां चञ्चलां व्याकीर्णा मलकावलीं बिभ्रत् ।

पुनः कीदृशम् । चलत्कुण्डलं दोलायमानकर्णाभरणम् । तनुतरैरतिसूक्ष्मैः

स्वेदाम्भसां जालकैः कोरकेसदृशबिन्दुभिरित्यर्थः । किंचिन्मृष्टविशेषकं ईषद-

पाकृततिलकम् । पुनः कीदृशम् । सुरतान्ततान्तनयनं सुरतान्ते संभोगान्ते

तान्ते ग्लाने नयने यस्य तत् । अत्र स्वभावोक्तिरलंकारः । यथा नानावस्थं

पदार्थानां रूपं साक्षाद् विवृण्वती । स्वभावोक्तिश्च जातिश्चेत्युक्तत्वात् । अस्मिन्

श्लोकत्रये आशीरलङ्कारोऽप्यनुसंधेयः । यथोक्तं - आशीर्नामाभिलषिते वस्तु-

न्याशंसनमिति । तद्वक्त्रं त्वां पातु । हरिहर ब्रह्मादिभिर्देवतैः किमित्यनेन

इदानीमेव सुखदायिन्येतादृशि युवतिवक्त्रे सिद्धे सति एतद् विहाय काला-

न्तरसुखदायिनो हरिहरब्रह्मादयो न सेव्या इत्युक्तं भवति । तथा च नीति-

वाक्यामृते-— योऽर्थकामावपार्नृकृत्य धर्ममेवोपसेवते । पक्कंवं क्षेत्रं परित्यज्य अरण्यं

कर्षतीवै स इति ॥ श्रमो नाम भावो व्यज्यते । यथोक्तम् - श्रमः खेदोध्वमृगया-

युद्धेवाहाधिरोहणैः । संभोगनृत्यशास्त्रास्त्रव्यायामाद्यैः प्रजायते ॥ निश्वासस्त्रे-

दसीत्काराः संकोचो मुखनेत्रयोः । शीतवातोदकच्छायापेक्षासंवाहनानि च ।

अङ्गमोटनमित्याद्यैरनुभावैः से' लक्ष्यते ॥