This page has not been fully proofread.

- ११६
 
अमरुशतकम्
 
glances of her eyes with their straight eye-lashes, did she
look at her husband as she would at any other ordinary
person. (99)
 
सा नायिका नायकस्यान्तःप्रवेशं स्वगृहान्तःप्रवेशं नारुणत् न निवारयति
स्म । किं च विमुखी पराङ्मुखी च नासीत् । किं च रोषपरुषाणि कोपकर्क-
शान्यक्षराणि वचनानि नाचष्ट नाभाषत । किं तु सरलपक्ष्मभिः सरलानि
ऋजूनि पक्ष्माण्यक्षिरोमाणि येषु ते तथोक्तास्तैरक्षिपातैः संदर्शनैः कान्तं प्रियं
जननिर्विशेषं सर्वजनसामान्यं यथा भवति तथा केवलं विलोकितवती दृष्टवत्यै-
वेति शेष इति संबन्धः । जननिर्विशेषं विलोकितवतीत्यनेनापराधिनः प्रिय-
स्यासाधारणं दण्डनं क्रियत इत्यवगम्यते । अवाहेत्थं नाम संचारी भावः ।
नायिका स्वीया धीरा प्रगल्भा च । नायकः शठः । ईर्ष्यामानकृतो
विप्रलम्भाङ्गारः । ईर्ष्याक्रोधप्रायं नर्म । आक्षेपोऽलंकारः ।
 
( १ ) D, आकारगोपनं ( २ ) D, विलासशून्यानि ( ३ ) D3
● जनसमानं ( ४ ) D3 • साधारणो दण्डः कृतः ; D1,D2 अनादरणं ;
D. असाधारणदण्डं कृतवतीत्यभिप्रायः
 
A
 
कवेर्वाक्यम्-
 
प्रियकृतपटस्तेयत्रीदाविलम्बनविह्वलां
 
किमपि करुणालापां तन्वीसुदीक्ष्य ससंभ्रमम् ।
अपि विगलिते स्कन्धावारे गते सुरताबाहे
 
त्रिभुवनमहाधन्वी स्थाने न्यवर्तत मन्मथः ॥ १०० ॥
 

 
( a ) D2 ° विडम्बन ० ; Do • विलम्बित ० ( C ) 0 ° ते प्रेमावेशे ;
T स्कन्धाधारे
 
The God of love, seeing the fair one distressed on
account of delay caused by the playful stealth of her
garments by her lover, and crying piteously in a manner
that beggared description, quickly returned to the fray—this
greatest archer in the three worlds-even when the camp was
broken, and the battle of love-play had ended. (100)