This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
१०३
 
चित् कृच्छ्रेण नीत्वातिवाह्य वासगृहं केलिभवनं गत्वा प्राप्य जडे विवेकशून्ये
परिजने परिचारकवर्गे दीर्घामायतां कथां वाक्यप्रचन्धं कुर्वति सति विदधति
सति रतिकातरेण रतौ रतिविषये कातरमधीरं तेन कालविलम्बाऽसहिष्णु-
नेत्यर्थः । मनसा हृदयेनोपलक्षितया तन्वङ्गया कान्तया दष्टा क्षतास्मीति
येन केनापि जन्तुनेति शेषः । सत्वरपदं ससंभ्रमवचनं यथा भवति तथाभि-
धाय व्याहृत्य चीनांशुकं क्षौमवसनं व्याधूय विक्षिप्यं प्रदीपो दीपः
शमं शान्ति नीतः प्रापित इति संबन्धः । अभिप्रायो व्यक्त एव । अत्रौ -
त्सुक्यं नाम संचारी भावः । नायिका स्वीया प्रगल्भा च । नायकोऽनुकूलः ।
प्रवासानैन्तरं संभोगाङ्गारः । अत्र नर्मगर्भः । युक्तिरलंकारः ।
 
( १ ) Do
 

 
विधालापै ;
 
D3 has simply मनोरथशतैरनेक-
विधाभिलाषैः ; D1, D2 drop अनेकविधाभिलाषैः ( २ ) Mt संवीज्य
( ३ ) D2 drops प्रवासानन्तरं
 
पूर्वे कृते परिचयातिशयेन नायकेन पश्चात्परित्यक्ता नायिका स्ववाटिकायां
यदृच्छागतं प्रियं दृष्ट्वा तमुपालभते-
 
रोहन्तौ प्रथमं ममोरसि तव प्राप्तौ विवृद्धिं स्तनौ
 
संल्लापास्तव वाक्यभङ्गिमिलनान्मौग्ध्यं परं त्याजिताः ।
धात्रीकण्ठमपास्य बाहुलतिके कण्ठे तवासञ्जिते
 
निर्दाक्षिण्य करोमि किन्नु विशिखाप्येषा न पन्थास्तव ॥८७॥
(b ) Ds ० भङ्ग ० ( C ) D, O, T, U, Oa, S आसजिते
 
The twin breasts, first budding on my bosom, grew
plump by contact with your bosom; my conversation,
mixing with your clever turns of speech, lost to a very
great extent its original simplicity ; my creeper-like arms,
leaving the neck of my foster-mother, clung around your
neck: what can I do, Oh discourteous one, even this street
is no longer your trodden path ! (87)
 
प्रथमं ममोरसि रोहन्तौ उद्भवन्तौ स्तनौ तवोरसि विवृद्धिं प्राप्तौ गतौ ।
मम सलापाः संभाषणानि तव वाक्यभङ्गिमिलनाद् वाक्यरीतिमिश्रणात्