This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
६५
 
"Silly girl that I was, why did I not clasp my lord by
the neck? Why did I lower my face, while he tried to kiss
me? Why did I not look up to him? Why did I not speak
to him ? " The young wife who, with the awakening of
love in her heart, had tested the sweets of love, looks back
with regret on her own attitude in the days when she was a
newly-married bride. (51)
 
तरुणी युवतिः प्रेणि प्रणये जाते संभूते सति लज्जावरणं विहाय
प्रकाशमाने सतीत्यर्थः । रसज्ञा रुचिज्ञा सती संभोगसौख्यं विशेषेण
जानातीत्यर्थः । तदानीं मूढया अज्ञेया मया प्राणनाथः प्राणेश्वरः किमिति
कण्ठे नाश्लिष्टः नालिङ्गितः । किं चास्मिन्प्राणनाथे चुम्बति चुम्बनं कुर्वति
सति वदनविनैतिः सुखनमनं किं कृता किमर्थमाचरिता । किं च स
प्राणनाथः किं न दृष्टः किमिति नावलोकितः किं च स कस्माद्धेतोर्नोक्तः
न संभाषितः इत्यनेन प्रकारेण नववधूचेष्टितं नवोढाव्यापारं आत्मीयमिति
शेषः । चिन्तयन्ती स्मरन्ती पश्चात्तापमनुशयं एतावन्तं कालं मौग्ध्येन
वञ्चितास्मीत्येवंरूपं वहति धारयतीति संबन्धः । अत नायिका स्वीया मध्या
च । नायकोऽनुकूलः । संभोगशृङ्गारः अनुशयाक्षेपालंकारः" ।
 
( १ ) D1, अज्ञतया ; Bm अज्ञानान्मया ( २ ) D. चुम्बनमनुसरति ;
Bm, Mt चुम्बति सति ( ३ ) D2 ° विनुति: ; D
'नमितिः ; Bm
 
° विधुतिः ( ४ ) Da
 
this स्पष्ट एवाभिप्रायः
 
अनुनयाक्षेपालंकारः
 
(4) Mt adds after
 
प्रयास्यन्तं नायकं नायिका वक्रोक्त्या वारयति -
 
वान्तैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियै-
अन्यैस्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् ।
धन्याहं ब्रज मङ्गलं सुदिवसं प्रातः प्रयातस्य ते
 
यत्स्नेहोचितमीहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥ ५२ ॥
 
°
 
( a ) De वातैर्लोचन • (b ) D, Do अन्यास्ता ; D2 अन्यैश्वापि
निवारयन्ति ; T अन्यैश्वाविनिवारयन्ति (d ) D1, D2, D, • माहितं