This page has been fully proofread once and needs a second look.

इति । स्पष्टार्थः । अनुक्ता संख्या शास्त्रान्तरादवगन्तव्येति भावः ॥ समचतु-
रश्रफलयोर्वर्गसंज्ञां वर्गस्व<flag>रूनू</flag>पञ्चार्यार्धेनाह ।
 
वर्गस्समचतुरश्रः फलञ्च सदृशद्वयस्य संवर्गः ।
 
यस्य चतुरश्रस्य क्षेत्रस्य चत्वारीरो बाहवः परस्परं समास्स्युः कर्णद्वयञ्च परस्परं
समं भवेत् तत्क्षेत्रं समचतुरश्रमित्युच्यते । स क्षेत्रविशेषो वर्गसंज्ञितो भवति ।
फलञ्च । तस्मिन् क्षेत्रे यत्क्षेत्रफलं भवति तदपि वर्गसंज्ञितं भवति । क्षेत्र-
फलसमुदायस्य वर्गसंज्ञा भवति । अभीष्टक्षेत्रस्यान्तर्भागे हस्तमितेतैश्चतुर्भिर्बाहु-
भिर्निष्पन्नानि यानि समचतुरश्राणि तानि क्षेत्रफलानीत्युच्यन्ते । एवं त्रिको-
णवृत्तादिक्षेत्रेष्वपि हस्तोन्मितचतुरश्रपरिकल्पनया जातानां चतुरश्रखण्डानां
फलसंज्ञा भवतीति वेद्यं । सदृशद्वयस्य संवर्गः । सदृशयोः परस्परतुल्ययोस्सं-
ख्ययोर्यस्संवर्गः परस्परहतिस्स वर्गसंज्ञो भवति । स्वस्य स्वसंख्यया हननं व-
र्गकर्मेत्युक्तं भवति ॥ उत्तरार्धेन घनमाह ।
 
सदृशत्रयसंवर्गो घनस्तथा द्वादशाग्रस्स्यात् ॥ ३ ॥
 
तुल्यसंख्यात्रयस्य संवर्गः परस्परहतिर्घनसंज्ञो भवति । स्वस्य स्वसंख्यया गुणि-
तस्य पुनरपि स्वसंख्यया हननं घनकर्मेत्युक्तं भवति । तथा द्वादशाश्रक्षेत्रञ्च
घनसंज्ञं भवति। एतदुक्तं भवति । हस्तोन्मितिदैर्घ्यविस्तृतेस्समचतुरश्रस्य स्त-
म्भादेर्यथा मूले तिर्यगायतानि चत्वार्यश्राणि भवन्ति । तथाग्रे चत्वारि । अधऊ-
र्ध्वगतानि चत्वारि । एवं द्वादशभिरश्रैर्युतं क्षेत्रञ्च घनसंज्ञं भवतीति । अत्र