This page has been fully proofread once and needs a second look.

भूमेर्ग्रहाणाञ्च चरितं यस्मिन्दशगीतिकासूत्रे तद्दशगीतिकासूत्रं । भपञ्जरे ज्ञात्वा ।
गोले ज्ञात्वा। भपञ्जरमध्ये भूस्तिष्ठति । चन्द्रादिमन्दान्ता ग्रहास्स्वगत्या प्राङ्मुखं
चरन्तो ज्योतिश्चक्रगत्यापराभिमुखं भ्रमन्ति । तत उपरि स्वतोगतिहोनं नक्षत्र-
मण्डलमपराभिमुखं भ्रमति । इत्यादि ज्ञात्वेत्यर्थः । स पुरो गणितविदेवंविधं
ग्रहादिचरितं ज्ञात्वा ग्रहनक्षत्राणां मार्गं भित्वा परं ब्रह्म गच्छति ॥
 
---
इति पारमेश्वरिकायां भटदीपिकायां गीतिकापादः प्रथमः
---
 
एवं दशगीतिकात्मकेन प्रबन्धेनातीन्द्रियमर्थजातमुपदिश्येदानीं तन्मूलन्याया-
वसेयमर्थजातं प्रबन्धान्तरेण प्रदर्शयन्निष्टदेवतानमस्कारपूर्वं तदभिधानं प्रतिजानाति ।
 
ब्रह्मकुशशिबुधभृगुरविकुजगुरुकोणभगणान्नमस्कृत्य ।
आर्यभटस्त्विह निगदति कुसुमपुरे ऽभ्यर्चितं ज्ञानं ॥१॥
 
ब्रह्मभूमिग्रहनक्षत्रगणान्नमस्कृत्य कुसुमपुरे कुसुमपुराख्ये ऽस्मिन्देशे। अभ्यर्चितं
ज्ञानं कुसुमपुरवासिभिः पूजितं ग्रहगतिज्ञानसाधनभूतं तन्त्रमार्यभटो निगदति ।
[कुसुमपुरे ऽभ्यर्चितमित्यनेन]॥ कालक्रियागोलयोर्गणितगम्यत्वात्प्रथमं गणि-
तपादं प्रतिपादयिष्यन्नादितो दशानां स्थानानां संज्ञास्संख्यालक्षणञ्चाह ।
 
एकं दश च शतञ्च सहस्रमयुतनियुते तथा प्रयुतं ।
कोट्यर्बुदञ्च वृन्दं स्थानात्स्थानं दशगुणं स्यात् ॥ २ ॥ [^*]
 
---
[^*] इहार्यापूर्वार्धे वृत्तभङ्ग उपलभ्यते । एकं दशायतु शतं सहस्रमिति पाठः सुद्धप्रायो भवेत्