This page has been fully proofread once and needs a second look.

घ्लकि किग्र हक्य धाहा स्त स्ग श्क ङ्व ल्क प्त फ छ कलार्धज्याः ॥ १० ॥ [^*]
 
कलार्धज्याः कलात्मिका अर्धज्या इहोक्ता इत्यर्थः । समस्तज्या अर्धज्येति द्वि-
विधा हि जीवा । चापाकारस्य वृत्तपरिधिभागस्यैकाग्रादपराग्रान्तगता रेखा
समस्तज्येत्युच्यते । तदर्धमर्धज्येत्युच्यते । गोलकालक्रिययोरर्धज्यैव हि प्रायेण
व्यवहारः। तस्मादिहार्धज्याप्रदर्शनं क्रियते । चतुर्विंशतिजीवा इह पठिताः ।
अतो गोलपादस्व चतुर्विंशतिभागं चापं प्रकल्प्येह जीवाः कल्पिता इति
प्रदर्शितं भवति । श्राद्यजीवा मखि इति । पञ्चविंशत्यधिकशतद्वयं । भखि
चतुर्विंशत्यधिकशतद्वयं । एवमन्याश्च वेद्याः । अष्टमी <flag>हस्त</flag> इति । नवाङ्कैकाः ।
स्वकि चन्द्राङ्कैकाः । किष्ग त्रिवसुचन्द्राः । श्घकि वेदाद्चेकाः । किघ्व वेदषडेकाः ।
घ्लकि वेदेष्विन्दवः। किग्र त्रिमनवः । हक्य एकाग्निचन्द्राः । धाहा नवरुद्राः ।
स्त षड्दश । स्ग त्र्यङ्काः । श्क नवाद्रयः । ङ्व पञ्चरसा: । ल्क एकेषवः । प्त
सप्ताग्नयः। फ <flag>यश्विनः</flag>। छ सप्त ॥ अत्रैकचापोत्था जीवया रहिता द्वितीयज्या ।
चापत्रयोत्थजीवा चापद्वयोत्थजीवया रहिता तृतीयज्या । एवं परा अपि ज्ञेयाः ।
यद्यप्यर्धज्या एता युक्तितस्साध्यास्तथापि तासां बहुषु साधनवादिहोपदेशः कृत
इति बोद्चव्यं ॥ दशगीतिकासूत्रपरिज्ञानस्य फलमाह ।
 
दशगीतिकासूत्रमिदं भूग्रहचरितं भपञ्जरे ज्ञात्वा ।
ग्रहभगणपरिभ्रमणां स याति भित्त्वा परं ब्रह्म ॥ ११ ॥
 
---
 
[^*] अस्मिन्सूत्रे वृत्तभङ्ग उपलभ्यते । अतः प्रकाशिकापाठो धह इच् स्ग इत्यादिः शोभनपाठः।