This page has been fully proofread once and needs a second look.

कर्णसाध्यत्वं मन्दभुजाफलस्य तदभावश्च । अथवा मन्दकर्णतत्साधनानामविशे-
षकरणं शीघ्रकर्णतत्साधनानां तदभावश्चेति ॥ एवमोजपदे वृत्तानि प्रदर्श्य
युग्मे पदे वृत्तानि भूवायोः कक्ष्याप्रमाणञ्च नवमसूत्रेणाह।
 
मन्दात् ङ ख द ज डा वक्रिणां द्वितीये पदे चतुर्थे च।
जा ण ल्क्त छ्ल क्नोच्चाच्छीघ्रात् गियिङ्श कुवायुकक्ष्यान्त्या ॥ <flag>१</flag> ॥
 
वक्रिणां पूर्वसूत्रोदितानां बुधभृगुकुजगुरुशनीनां द्वितीये पदे चतुर्थे पदेच
मन्दात् मन्दगतिवशाज्जातानि मन्दवृत्तानि ङादीनि । बुधस्य ङ पञ्च । भृगोः
ख द्वे। कुजस्य द अष्टादश। गुरोः ज अष्टौ । शनेः डा त्रयोदश॥ पूर्वोक्तानां
शनिगुरुकुजभृगुबुधानां शीघ्रादुच्चाच्छीघ्रोच्चगतिवशाज्जातानि शीघ्रवृत्तानि जादीनि ।
तानि च द्वितीयचतुर्थपादयरुच्यन्ते । शनेः जा अष्टौ । गुरोः ङ पञ्चदश । कुजस्य
ल्क्त । क एकं । ल पञ्चाशत् । एकपञ्चाशत् । शुक्रस्य छ्ल । छ सप्त । ल
पञ्चाशत् । सप्तपञ्चाशत् । बुधस्य क्न । क नव । न विंशतिः । एकोनत्रिंशत् ।
अत्र द्वितीयचतुर्थपदोपदेशात्पूर्वोक्तानि प्रथमतृतीययोरिति चोक्तं भवति ॥ कु-
वायोर्भूसंबन्धिनो वायोरनियतगतेरन्त्या कक्ष्या पर्यन्तभवा कक्ष्या गिविङश
इति । गि शतत्रयं । यि सहस्रत्रयं । ङ पञ्च । श सप्ततिः । अत ऊर्ध्वं प्रवहो
नाम वायुर्नियतगतिस्सदा भवति येन ज्योतिश्चक्रमिदमपराभिमुखं भ्रमति ॥
दशमसूत्रेण कालक्रियागोलोपयोगानि ज्यार्धान्याह।
 
मखि भखि फखि धखि णखि ञखि ङखि हस्क <flag>स्वकि</flag> किष्ग श्घकि किध्व ।