This page has been fully proofread once and needs a second look.

एकद्वित्रिचतुष्पञ्चभगणाः परिकीर्तिताः ।
सौम्यारशुक्रजीवार्कपातानां क्रमशो युगे ॥
 
एतैस्त्रैराशिकाद्यथोक्तपातसिद्धिः । इति । युगमत्र वर्षात्मकं । एभिस्सिद्धानां पा-
तानामुक्ता अंशा एव भवन्ति नतु कतिचिद्भगणाः । ते ऽंशाः क्रमगता एव
भवन्ति नतु विलोमगाः। तथा सूर्यबुधादीनाञ्च मन्दोच्चयुगं तद्भगणाश्च प्रदर्शिताः
 
रव्युच्चस्य रसैकाङ्कगिर्यष्टिनवशङ्करा ।
सहस्रघ्ना युगं प्रोक्तं भगणाश्च त्रयोदश ॥
दन्तवस्वश्विरामाग्निवसुरामयमा युगं ।
बुधोच्चस्य शतघ्नास्ते सप्तात्र भगणास्स्मृताः ॥ [^*]
खखाब्धिवेदपञ्चाष्टिवेदनन्दाद्रयो युगं ।
कवेस्सूरेस्तदर्धं स्यादेकस्तस्मिन् गणस्तयोः॥ [^+]
 
इति । सौरकुजयोस्तु तत्प्रकरणे ग्रन्थे पाठो दृश्यते । तयोरेवं पाठः कार्यः
 
व्योमाम्बरशून्यकृताब्धिरुद्रशरवसुमतीषुशशितुल्यं ।
असितोच्चयुगं कौजं द्विगुणं भगणा इहेषवस्तु तयोः ॥ [^**]
 
इति । अत्रापि पठितभागा एव लभ्यन्ते नतु भगणाः । अत एवं प्रतीयते
 
---
[^*] प्रकाशिकापुस्तके शतघ्न स्यात् इति पाठो दृश्यते॥
[^+] प्रकाशिकापुस्तके एकस्तडगणास्तयोः । इति दृश्यते॥
[^**] प्रकाशिकापुस्तके °रुद्रशरशैलवसुमुनीन्दुसमाः । इति पाठः । <flag>अपरञ्च</flag> । भगणा नवेषवस्तु तयोः । इति लिखितम्