This page has been fully proofread once and needs a second look.

कालेनैवाल्योऽपि गतिविशेषस्संभवतीति मवा तेषां गतिरिहानभिहिता ।
उक्ताश्शास्त्रान्तरे (सूर्यसिद्धान्ते मध्याधिकारे ४१) तेषां कल्पभगणाः
 
प्राग्गतेस्सूर्यमन्दस्य कल्ये सप्ताष्टवलयः ।
कौजस्य वेदखयमा बौधस्याष्टर्तुवह्नयः ॥
खखरन्ध्राणि जैवस्य शौक्रस्यार्थगुणासवः ।
गोऽग्रयश्शनिमन्दस्य पातानामथ वामतः ॥
मनुदस्रास्तु कौजस्य बौधस्याष्टाष्टसागराः ।
कृताद्रिचन्द्रा जैवस्य त्रिखाङ्काश्च गुरोस्तथा॥
शनिपातस्य भगणाः कल्पे यमरसर्तवः ।
 
इति । गुरोरिति दैत्यगुरोरुक्तं [^*]। अस्मिन्पक्षे कलेः प्रागतीता ग्रहगतिवि-
षयाः कल्पाब्दा लिख्यन्ते
 
खखखाभ्राहिनागेषुबाणाङ्कैकाः कलेस्समाः ।
प्राङ्नर्दिष्टा ग्रहाणान्तु चारारम्भात्ततो ऽध्वगाः ॥
 
इति। अस्मिन्पक्षे कुदिवसा अष्टाक्ष्यहिखरेन्द्रगोऽद्यङ्गतिथयः । भटप्रकाशिका-
यामुच्चपातानां गतिरन्यथा प्रदर्शिता
 
खाकाशाष्टकृतद्विद्विव्योमेष्वद्रीषुवह्नयः ।
युगं बुधादिपातानां विद्वद्भिः परिपठ्यते ॥
 
---
[^*] मैवं। भृगोरिति पाठस्य पुस्तकान्तरे दृष्टत्वाद्रुरोरिति पाठः प्रामादिक इत्यनुमेयम् ।