This page has been fully proofread twice.

सूर्यपुयुतानां तेषां मन्दोच्चांशांश्च सप्तमेन सूत्रेणाह ।
 
बुधभृगुकुजगुरुशनि नवरषहा गत्वांशकान्प्रथमपाताः ।
सवितुरमीषाञ्च तथा द्वा खि सा ह्दा ह्ल्य खिच्य मन्दोच्चं ॥७॥
 
बुधस्य पातांशाः न विंशतिः । भृगोः व षष्टिः । कुजस्य र चत्वारिंशत् ।
गुरोः ष अशीतिः । शनेः ह शतं । गत्वांशकान्प्रथमपाताः । उक्तानेतानेवांश-
कान्मेषादितो गत्वा व्यवस्थिता बुधादीनां प्रथमपातास्स्युः । प्रथमशब्देन
द्वितीयो ऽपि पातो ऽस्तीति सूचितं । स च प्रथमपाताच्चक्राधार्ढन्तरे स्थितस्स्यात् ।
विक्षेपमण्डलापमण्डलयोस्संपातस्थानं पातशब्देनोच्यते । तदुच्द्युभयत्र भवति । ग-
त्वेतिवचनात्तेषां पातानां गतिरभिप्रेता । गतिश्च विलोमा । पातविलोमा
इत्यनेन पातानां विलोमगत्वमुक्तं । अस्मिन्काले पातानां स्थितिरेवमित्युक्तं
भवति ॥ सवितुर्मन्दोच्चं तथा द्वा। दा अष्टादश । वा षष्टिः । अष्टसप्ततिभागान्
तथा मेषादितो गत्वा स्थितं सवितुर्मन्दोच्चमित्यर्थः । अमीषामुक्तानां बुधादीनां
मन्दोच्चानि ञखिरित्येवमादिभिरुक्तानि । बुधस्य मन्दोच्चं ञखि दशाधिकशत-
द्वयभागाः । भृगोः सा नवतिभागाः । कुजस्य ह्दा । हा शतं दा अष्टादश ।
अष्टादशाधिकशतभागाः। गुरोः ह्ल्य । ह शतं ल पञ्चाशत् व त्रिंशत् ।
अशीत्यधिकशतभागाः। शनेः खिच्य । खि शतद्वयं च षट् य त्रिंशत् । ष-
ट्त्रिंशदुत्तरशतद्वयभागाः। गत्वेतिवचनादेषामपि गतिरभिहिता । गतिश्चानुलोमा
चन्द्रोच्चवत् । अस्मिन्काल एव मन्दाञ्दोच्चस्थितिरित्युक्तं भवति । पातोच्चानां बहुना