This page has not been fully proofread.

चापयानप्रमाणं पुरुषप्रमाणञ्च षष्ठेन सूत्रेणाह
 
भाऽपक्रमो ग्रहांशाश्शशिविक्षेपो ऽपमण्डलाज्झार्धं ।
शनिगुरुकुज खकगार्ध भृगुबुध व स्चाङ्गुलो घस्तो ना ॥६॥
 
भाज्यक्रमा ग्रहांशाः। ग्रहाणां भ अंशाश्चतुर्विंशतिभागा अपक्रमः । परमापक्रम
इत्यर्थः । पूर्वपरस्वस्तिकात्रिराश्यन्तरे घटिकामण्डलापक्रममण्डलयोरन्तरालं
चतुर्विंशतिभागतुल्यमित्यर्घः ॥ अपमण्डलाच्छशिनः परमविक्षेपो कार्ध नवा -
नामर्ध साधीश्चत्वारोऽंशाः ॥ शनिगुरुकुज खकगार्थ । शर्विक्षेपः ख द्वावंशी ।
गुरोः क एकांशः । कुजस्य गार्ध त्रयाणामधं सार्धे अंशः । भृगुबुध ख । भू-
गुबुधयोर्विक्षेपः ख द्वावंशी ॥ स्चाङ्गुल घस्तो ना । पुरुषस्स्चाङ्गुलो घहस्तश्च ।
स नवतिः। च षट्। षायः पुरुषः । घस्तश्चतुर्हस्तश्च पुरुषः। नृषि
योजनमित्यादौ नरशब्देन षणवत्यङ्गुलप्रमाणमुदितमित्युक्तं भवति । तदेव
चतुर्हस्तप्रमाणं भवति। चतुर्विंशयरेको हस्तो भवतीति चोक्तं भवति।
श्रृङ्गुलस्य परिमाणानुपदेशालाकसिमेवाङ्गुलं गृह्यते । उक्तञ्च तत्परिमाणं
तत्रान्तरे (लीलावत्यां)
 
ग्रवोदरैरङ्गुलमष्टसंख्येर्दस्तो ऽङ्गुष्पतिश्चतुर्भिः।
हस्तैश्चतुर्भिर्भवतीह दण्डः क्रोशस्सहस्रद्वितयेन तेषां ॥
 
इति ॥ इह विक्षेपकथने शन्यादीनां भृगुबुधवाश्च पृथग्ग्रहणं कृतं । तेन तेषां
तयोश्च विक्षेपानयने प्रकार भेदोस्तीति सूचितं ॥ कुजादीनां पञ्चानां पातभागान्
 
Digitized by
 
Google