This page has been fully proofread once and needs a second look.

भवति॥ पञ्चमेन योजनपरिमितिं भूम्यादेजनप्रमाणञ्च प्रदर्शयति ।
 
नृषि योजनं ञिला भूव्यासो ऽर्केन्द्वोर्घ्रिञा गिण क मेरोः ।
भृगुगुरुबुधशनिभीमाश्शशि ङञणनमांशकास्समार्कसमाः ॥५॥
 
नृषि योजनं । नृ नरप्रमाणानां षि अष्टसहस्रं योजनं योजनस्यनृषि योजनं । नृ नरप्रमाणानां षि अष्टसहस्रं योजनं योजनस्य प्रमाणं
भवति ॥ ञिला भूव्यासः । ञि सहस्रं ला पञ्चाशत् । एतानि भूमेर्व्यासप्र.
माणयोजनानि॥ श्रर्केञिा गिण । अर्कमण्डलस्य व्यासप्रमाणयोजनानि
घिञा इति । घि चवारि शतानि । रि चवारि सहस्राणि । ञ दश । इ-
न्दोर्गिण इति । गि त्रिशतं । ण पञ्चदश ॥ क मेरोः । मेरोर्व्यासयोजनप्र.
माणं क। एकमित्यर्थः ॥ भृग्वादीनां बिम्बयोजनानि क्रमाच्छशिनो बिम्बस्य
योजनव्यासात् ङांशञांशणांशनांशमांशतुल्यानि । पञ्चांशदशांशपञ्चदशांशविं-
शांशपञ्चविंशांशतुल्यानीत्यर्थः ॥ शशिकक्ष्यासाधिता ते व्यासाः । अतो विष्क-
म्भार्धहताश्चन्द्रस्य योजनकर्णभक्ता लिप्ता भवन्ति । पुनरपि ता विष्कम्भार्ध-
हतास्स्वस्वमन्दकर्णशीघ्रकर्णयो यौगार्धकृतास्स्फुटा भवन्ति । इत्युपदेशः । तथाच
मयः [^*]
 
त्रिचतुः कर्णयुत्याप्तास्ते द्विघ्नास्त्रिज्यया हताः ।
 
इति । अत्र चन्द्रस्य योजनकर्णश्चन्द्रस्य मध्ययोजनकर्णः ॥ समार्कसमाः ।
युगसमा युगार्कभगणसमा इत्यर्थः ॥ ग्रहाणां विषुवत उत्तरेण दक्षिणेन
 
------
 
[^*] सूर्यसिद्धान्ते ग्रहयुत्यधिकारे १४