This page has been fully proofread once and needs a second look.

शशिनश्चक्रं भगणा द्वादशगुणिता राशयः~। शशिनो युगभगणा द्वादशगुणिता
युगराशयो भवन्ति~। भगणाद् द्वादशांशो राशिरित्युक्तं भवति~। ते राशयो यगु-
भगणास्त्रिंशगुणिता अंशा भवन्ति~। राशेस्त्रिंशांशो भाग इत्युक्तं भवति~। ते ऽं-
शा वगुणाष्षष्टिगुणाः कला भवन्ति~। अंशात् षष्ठ्यंशः कलेत्युक्तं भवति~। ताः
कला ञगुणा योजनानि भवन्ति~। शशिनो युगभवाः कला दशगुणिता आ-
काशकक्ष्यायोजनानि भवन्तीत्यर्थः~। ब्रह्माण्डकटाहावच्छिन्नस्य सूर्यरश्मिव्याप्त-
स्याकाशमण्डलस्य परिधियोजनान्याकाशकक्ष्यायोजनानीत्युच्यन्ते~। खखषष्द्यद्रीषु-
खाश्विस्वराध्यद्य्रब्धिभास्करा इत्याकाशकक्ष्यायोजनानि ॥ प्राणेनैति कलां भं~।
प्राणेनोच्छ्वासतुल्येन कालेन भं ज्योतिश्चक्रं कलामेति कलापरिमितं प्रदेशं
प्रवहवायुवशात्पश्चिमाभिमुखं गच्छति~। खखषड्भूयमतुल्या हि ज्योतिश्चक्रगताः
कलाः~। चक्रभ्रमणकालनिष्पन्नाः प्राणाश्च तत्तुल्या इत्युक्तं भवति~। अतो
घटिकामण्डलगताः प्राणा राशिचक्रगताः कलाश्च क्षेत्रतस्तुल्या इति चोक्तं
भवति ॥ खयुगांशे ग्रहजवः~। खमाकाशकक्ष्या~। युगं ग्रहस्य भगणाः~। आ-
काशकक्ष्यातो ग्रहभगणैराप्तं ग्रहजवः~। एकपरिवृत्तौ ग्रहस्य जवो गतिमानं
योजनात्मकं भवति। ग्रहस्य कक्ष्यामण्डलपरिधियोजनमित्यर्थः~॥ भवांशे ऽर्कः~।
भस्य नक्षत्रमण्डलस्य कक्ष्याया वांशे षष्ठ्यंशे अर्को भ्रमति~। नक्षत्रकक्ष्यातष्ष-
ष्ठ्यंशेन तुलितार्ककक्ष्येत्युक्तं भवति~। अत्र नक्षत्रकक्ष्या विधीयते~। अर्ककक्ष्या
हि पूर्वविधिनैव सिद्धा~। अर्ककक्ष्या षष्टिगुणिता नक्षत्रकक्ष्या भवतीत्युक्तं