This page has been fully proofread once and needs a second look.

चतुर्युगाणि छ्ना । छा सप्त । ना विंशतिः । सप्तविंशतिरित्यर्थः । स्वराणां ह्र-
स्वदीर्घयोर्न विशेषः । अकारसदृश एवाकार ॥ कल्पादेर्युगपादा ग च गुरु-
दिवसाच्च भारतात्पूर्वं । युगपादा ग च । वर्तमानस्याष्टाविंशस्य चतुर्युगस्य ग
पादाश्च । त्रयः पादाश्च । गता भवन्ति । अस्मिन्सूत्रे ऽनाद्यं चकारत्रयं न संख्या-
प्रदर्शकं ॥ कदा एवमित्यत्राह । कल्पादेर्भारताद्गुरुदिवसात्पूर्वमिति । भारता
युधिष्ठिरादयः । तैरुपलक्षितो गुरुदिवसो भारतगुरुदिवसः । राज्यं चरतां युधि-
ष्ठिरादीनामन्त्यो गुरुदिवसो द्वापरावसानगत इत्यर्थः । तस्मिन्दिने युधिष्ठिरादयो
राज्यमुत्सृज्य महाप्रस्थानं गता इति प्रसिद्धिः । तस्मारुदिवसात्पूर्वं कल्पा-
देरारभ्य गता मन्वादय इहोक्ताः । इत्यर्थः । अस्मिन्पक्षे युगानि परस्परसमानि
युगपादश्च चतुर्युगचतुर्थांशः । अन्यथा चेत् बुधवारादिके चतुर्युगे कलियुगार-
म्भश्शुक्रवारे न संभवति। अतः कृतयुगारम्भो बुधवार इति । बुधाह्न्यजार्केदयाच्च
लङ्कायामिति । पठिताश्च प्रकाशिकायां कलियुगादेः प्रागतीताः कल्पदिवसाः
शराश्विषट्खाद्रिशराद्रिवेदकृतेषुयुग्मखरसंमितः स्यात् । इति । अहर्गणो नात्र
विशेष्यः । अनेनापि युगानां समयस्सिध्यति ॥ चतुर्थेन सूत्रेण राश्यादिविभा-
गमाकाशकक्ष्यायोजनप्रमाणं प्राणकलयोः क्षेत्रसाम्यं ग्रहनक्षत्रकक्ष्यायोजनप्र-
माणञ्चाह ।
 
शशिराशयष्ठ चक्रं तेऽंशकलायोजनानि यवञगुणाः ।
प्राणेनैति कलां भं खयुगशि ग्रहजवो भवशि कः ॥ ४ ॥