This page has been fully proofread once and needs a second look.

इत्यनेन वेद्या ॥ युगरविभगणाः । चतुर्युगे रवेर्भगणाः ख्युघृ इति । उकार-
युतखकारेणायुतद्वयमुक्तं । उकारयुतयकारेण लक्षत्रयं । एवं सर्वत्र हल्द्वये
एक एव स्वर उभयत्र सम्बध्यते । ऋकारयुतघकारेण प्रयुतचतुष्कं । एवमनेन
न्यायेन सर्वत्र संख्या वेद्या । शशि । शशिन इत्यर्थः । सूत्रे यद्विभक्तिकोऽपि
प्रयोगस्स्यात् । चयगियिङुशुछ्लृ इति युगभगणाश्शशिनः । च षठ् । य त्रिंशत् ।
गि त्रिशतं । यि त्रिसहस्रं । ङु युतपञ्चकं । शु लक्षसप्तकं । छृ प्रयुतसप्तकं ।
लृ कोटिपञ्चकं । इति ॥ कु । भूमेरित्यर्थः । ङिशिवुणॢख्षृ इति भगणाः ।
प्राक् प्राग्गत्या सम्भूता भगणा इत्यर्थः । णॢ पञ्चदशार्बुदं | नवमस्थाने पञ्च
दशमस्थाने एकञ्चेत्यर्थः । खृ प्रयुतद्वयं । षृ कोट्यष्टकं । भूमेर्यत्प्राङ्मुखं भ्रमणं
तस्य चतुर्युगे संभूता संख्यात्रोक्ता । भूमिर्यदचलेति प्रसिद्धा तस्याः कथमत्र
भ्रमणकथनं । उच्यते । प्रवहाक्षेपात्पश्चिमाभिमुखं भ्रमतो नक्षत्रमण्डलस्य मि-
थ्याज्ञानवशाद्भूमेर्भ्रमणं प्रतीते । तदङ्गीकृत्येह भूमेर्भ्रमणमुक्तं । वस्तुतस्तु न
भूमेर्भ्रमणमस्ति । अतो नक्षत्रमण्डलस्य भ्रमणप्रदर्शनपरमत्र भूभ्रमणकथनमिति
वेद्यं । वक्ष्यतिच मिथ्याज्ञानं[^*]
 
अनुलोमगतिर्नौस्थः पश्यत्यचलं विलोमगं यद्वत् ।
अचलानि भानि समपश्चिमगानि लङ्कायां ॥
 
इति~। अहोरात्रेण हि भगोलस्य समस्तभागभ्रमणादूर्ध्वं रवेर्दिनगतितुल्यभागो
 
------
 
[^*] गोलपादे