This page has been fully proofread once and needs a second look.

इति ॥ वर्गाक्षराणि वर्गे । ककारादीनि मकारातानि वर्गाक्षराणि । तानि
वर्गस्थाने एकशतायुताद्योजस्थाने स्थाप्यानि एवं क्रमेण संख्या वेद्या ॥ अवर्गे
अवर्गाक्षराणि । यकारादीनि अवर्गाक्षराणि । तान्यवर्गस्थाने दशसहस्रलक्षा-
दियुग्मस्थाने स्थाप्यानि~ । कात् ककारादारभ्य संख्या वेद्या~ । ककार एकसंख्यः
खकारो द्विसंख्य एवं क्रमेण संख्या वेद्या~। ञकारो दशसंख्यः~ । टकार एका-
दशसंख्यः~ । नकारो विंशतिसंख्यः | मकारः पञ्चविंशतिसंख्यः~ । एवं लिपिपा-
ठक्रमेण संख्या वेद्या~ ॥ ङ्मौ यः~ । ङकारमकारयोर्योगेन तुल्यो यकारः~ । पञ्चसं-
ख्यायाः पञ्चविंशतिसंख्यायाश्च योगस्त्रिंशन्संख्य इत्यर्थः~ । अत्र प्रथमस्थानमङ्गीकृत्य
त्रिंशदित्युक्तं नतु द्वितीयस्थानमकृत्य द्वितीयस्थाने हि त्रिसंख्यो यकारः~
इत्युक्तं भवति~ । रेफादयः क्रमेण द्वितीयस्थाने चतुरादिसंख्यास्युः~ । हकारो
द्वितीयस्थाने दशसंख्यः शतसंख्यावाचक इत्यर्थः~ । एवमवर्गस्थानविहितापि
हकारसंख्या संख्यान्तरत्वेन वर्गस्थाने स्थाप्यते~ । एवं ञकारादिसंख्या वर्ग-
स्थानविहिताप्यवर्गस्थाने संख्यान्तरत्वेन स्थाप्यते~ । एतद्धि न्यायतस्सिद्धम्~ । अत्र
गतुल्यो यकार इति वक्तव्ये ङ्मौ य इति वर्णद्वयेन यदुक्तं तेन संयुक्तैरप्य-
क्षरैस्संख्या प्रतिपादयिष्यत इति प्रदर्शितं भवति~ ॥ शून्यभूतानामनङ्गीकृत-
संख्याविशेषाणां के प्रयुज्यन्ते~ । इत्यत्राह~ । खद्विनवके स्वरा नव वर्गे ऽवर्गे~।
इति~

इति
। द्विनवके अटादशके नव स्वराः क्रमेण प्रयुज्यन्ते~ । अ इ उ ऋ ऌ
ए ऐ ओ औ~ । इत्येते नव स्वराः~ । एतदुक्तं भवति~ । ककाराद्यक्षरगता-