This page has been fully proofread once and needs a second look.

इति ॥ वर्गाक्षराणि वर्गे । ककारादीनि मकारातानि वर्गाक्षराणि । तानि
वर्गस्थाने एकशतायुताद्योजस्थाने स्थाप्यानि एवं क्रमेण संख्या वेद्या ॥ अवर्गे
अवर्गाक्षराणि । यकारादीनि अवर्गाक्षराणि । तान्यवर्गस्थाने दशसहस्रलक्षा-
दियुग्मस्थाने स्थाप्यानि~। कात् ककारादारभ्य संख्या वेद्या~। ककार एकसंख्यः
खकारो द्विसंख्य एवं क्रमेण संख्या वेद्या~। ञकारो दशसंख्यः~। टकार एका-
दशसंख्यः~। नकारो विंशतिसंख्यः | मकारः पञ्चविंशतिसंख्यः~। एवं लिपिपा-
ठक्रमेण संख्या वेद्या~॥ ङ्मौ यः~। ङकारमकारयोर्योगेन तुल्यो यकारः~। पञ्चसं-
ख्यायाः पञ्चविंशतिसंख्यायाश्च योगस्त्रिंशन्संख्य इत्यर्थः~। अत्र प्रथमस्थानमङ्गीकृत्य
त्रिंशदित्युक्तं नतु द्वितीयस्थानमकृत्य द्वितीयस्थाने हि त्रिसंख्यो यकारः~।
इत्युक्तं भवति~। रेफादयः क्रमेण द्वितीयस्थाने चतुरादिसंख्यास्युः~। हकारो
द्वितीयस्थाने दशसंख्यः शतसंख्यावाचक इत्यर्थः~। एवमवर्गस्थानविहितापि
हकारसंख्या संख्यान्तरत्वेन वर्गस्थाने स्थाप्यते~। एवं ञकारादिसंख्या वर्ग-
स्थानविहिताप्यवर्गस्थाने संख्यान्तरत्वेन स्थाप्यते~। एतद्धि न्यायतस्सिद्धम्~। अत्र
गतुल्यो यकार इति वक्तव्ये ङ्मौ य इति वर्णद्वयेन यदुक्तं तेन संयुक्तैरप्य-
क्षरैस्संख्या प्रतिपादयिष्यत इति प्रदर्शितं भवति~॥ शून्यभूतानामनङ्गीकृत-
संख्याविशेषाणां के प्रयुज्यन्ते~। इत्यत्राह~। खद्विनवके स्वरा नव वर्गे ऽवर्गे~।
इति~। द्विनवके अटादशके नव स्वराः क्रमेण प्रयुज्यन्ते~। अ इ उ ऋ ऌ
ए ऐ ओ औ~। इत्येते नव स्वराः~। एतदुक्तं भवति~। ककाराद्यक्षरगता-