This page has been fully proofread once and needs a second look.

र्थिकाः । परं ब्रह्म जगतो मूलकारणं त्रिमूर्त्यतीतं सर्वव्याप्तं ब्रह्म स्वय-
म्भूरित्युक्तो भवति । आर्यभट एवं ब्रह्माणं प्रणिपत्य गणितं कालक्रियां गोलम्
इत्येतानि त्रीणि वस्तूनि निगदति । परोक्षत्वेन निर्देशान्निगदतीति वचनम् । तत्र
गणितन्नाम सङ्कलितमिश्रश्रेडीदर्शधीकुट्टाकारच्छायाक्षेत्राद्यनेकविधम् । इह तु का-
लक्रियागोलयोर्यावन्मात्रं परिकरभूतं तावन्मात्रं सामान्यगणितमेव प्रायशः
प्रतिज्ञातं । अन्यच्च किञ्चित् । कालस्य क्रिया कालक्रिया । कालपरिच्छेदोषा-
यभूतं ग्रहगणितं कालक्रियेत्यर्थः । गोलन्नाम ब्रह्माण्डकटाहमध्यवर्त्याकाशमध्यस्थं
ग्रहनक्षत्रकक्ष्यात्मकं स्वमध्यस्यघनवृत्तभूमिकमपक्रमाद्यशेषविशेषोपेतं प्रवहा-
ख्यवायुप्रेरितं कालचक्रज्योतिश्चक्रभपञ्जरादिशब्दवाच्यं गोलः । स च वृत्तक्षेत्र-
वाच्चतुरश्राद्यनेकक्षेत्रकल्पनाधारत्वाच्च गणितविशेषगोचर एव । एतत्त्रयमपि
द्विविधम् । उपदेशमात्रावसेयन्तन्मूलन्यायावसेयञ्चेति । तत्र युगप्रमाणमन्दोच्चादिवृ-
त्ताद्यपक्रमाद्युपदेशमात्रावसेयम् । इष्टदिनग्रहगतीष्टापक्रमस्वाहोरात्रचरदलादिच्छा-
यानाडिकाद्युपदेशसिद्धयुगप्रमाणादितो न्यायावसेयम् । एवं द्वैविध्यम् ॥ अत्र स्वय
म्भूप्रणामकरणेन करिष्यमाणस्य तन्त्रस्य ब्रह्मसिद्धान्तं मूलमितिच प्रदर्शितं ॥
 
अथोपदेशावगम्यान्युगभगणादीन् सङ्क्षेपेण प्रदर्शयितुं दशगीतिकासूत्रं
करिष्यन् तदुपयोगिनीं परिभाषामाह ।
 
वर्गाक्षराणि वर्गेऽवर्गेऽवर्गीक्षराणि कात् ङ्मौ यः ।
खद्विनवके स्वरा नव वर्गेऽवर्गे नवान्त्यवर्गे वा ॥२॥