This page has been fully proofread once and needs a second look.

अविघ्नमस्तु
 
यत्तेजः प्रेरयेत् प्रज्ञां सर्वस्य शशिभूषणं।
मृगटङ्काभवेष्टाङ्कत्रिनेत्रन्तमुपास्महे ॥
लीलावती भास्करीयं लघु चान्यच्च मानसं ।
व्याख्यातं शिष्यबोधार्थं येन प्राक्तेन चाधुना ॥
तन्त्रस्यार्यभटीयस्य व्याख्याल्पा क्रियते मया ।
परमादीश्वराख्येन नाम्नात्र दीपिका ॥
परमादीश्वराख्येन नाम्नात्र भटदीपिका ॥
 
तत्रायमाचार्य आर्यभटो विघ्नोपशमनार्थं स्वेष्टदेवतानमस्कारं प्रतिपाद्य वस्तु-
कथनञ्चार्यरूपया करोति ।
 
प्रणिपत्यैकमनेकं कं सत्यां देवतां परं ब्रह्म ।
आर्यभटस्त्रीणि गदति गणितं कालक्रियां गोलं ॥१॥
 
इति~॥ कं ब्रह्माणं एकं कारणरूपेणैकम् अनेकं कार्यरूपेणानेकं सत्यां देवतां
देव एव देवता । स्वयम्भूरेव पारमार्थिको देव अन्ये तेन सृष्टा इत्यपारमा-