This page has been fully proofread once and needs a second look.

अष्टौ । ष अशीतिः । बि शतत्रयाधिकद्विसहस्रं | खु अयुतदयं । छृ प्रयुतसप्तकं ।।
शेषार्काः । शेषाणां कुजगुरुमन्दानां शीघ्रोच्चभगणा आर्काः । अर्कभगणा एव ।
उपरिष्टादेषां मन्दोच्चांशान्वक्ष्यति । अत इन्होक्तश्शीघ्रोच्चभगणा इति सिध्यति ।
बुफिनच इति पातस्य चन्द्रपातस्य विलोमात्मकभगणाः । बु अयुतानां त्रयो-
विंशतिः । फि शतद्वयाधिकसहस्रद्वयं । न विंशतिः । च षट् ॥ कुजादीनां
पातभगणान्वक्ष्यति । अर्कस्य तु विक्षेपो न विधीयते । अत एते चन्द्रपातस्य
भगणा इति सिध्यति । उच्चपातानां व्योम्नि दर्शनं नास्ति । तथाच ब्रह्मगुप्तः
 
प्रतिपादनार्थमुच्चाः प्रकल्पिता ग्रहगतेस्तथा पाताः ।
 
इति ।। बुधवनार्केधाद्ययजार्कोदयाञ्च्च लङ्कायां । कृतयुगादी बुधवारे लङ्कायां सूर्योदयमा-
रभ्य। श्रजात् मेषादिमारभ्य राशिचक्रे गच्छतां रव्यादीनां भगणा त्रोक्ता
इत्यर्थः । सूर्योदयो मध्यसूर्योदयः कल्पारम्भस्तु स्फुटसूर्योदयः । तत्र मध्यमस्फुट
पो
-
यो
र्विशेषाभावात् ॥ कल्पकालान्तर्गतमनून् गतकालञ्च तृतीयसूत्रेणा |
 
"
ह ।
 
काहोमनवो मनुयुग श्ख गतास्ते च मनुयुग हूछ्ना च ।
कल्पादेर्युगपादा ग च गुरुदिवसाच्च भारतात्पूर्व |वं ॥३॥ -

काहोमनवो ढ । क कस्य ब्रह्मणः । ग्रहः अनिद्भि मनवो 5 चतुर्दश भवन्ति ।
मनुयुग श्। एकैकस्य मनोः काले युगानि चतुर्युगाणि शवश्ख | श सप्ततिः ।
द्वयं । द्वासप्ततिरित्यर्थः । गतास्ते च । एतस्माद्वर्तमानात्कलियुगात्पूर्वमती-
तास्ते मनवः। च षट्। मनुयुग ठूछ्ना च । वर्तमानस्य सप्तमस्य मनोः। श्रुतीतानि