This page has not been fully proofread.

अष्टौ । ष अशीतिः । बि शतत्रयाधिकद्विसहस्रं | खु अयुतदयं । छृ प्रयुतसप्तकं ।।
शेषार्काः । शेषाणां कुंजगुरुमन्दानां शीघ्रोच्चभगणा आर्काः । अर्कभंगणा एव ।
उपरिष्टादेषां मन्दोच्चांशान्वक्ष्यति । अत इन्होक्तारशीघ्रोच्चभगणा इति सिध्यति ।
बुफिनच इति पातस्य चन्द्रपातस्य विलोमात्मकभगणाः । बुयुतानां त्रयो
विंशतिः । फि शतदयाधिकसहस्रदयं न विंशतिः । चपटू ॥ कुनादीनां
पातभगणान्वक्ष्यति । अस्प तु विक्षेपो न विधीयते । अत ते चन्द्रपातस्य
भगणा इति सिध्यति । उच्चपातानां व्योम्नि दर्शनं नास्ति । तथाच ब्रह्मगुप्तः
प्रतिपादनार्थमुच्चाः प्रकल्पिता ग्रहगतेस्तथा पाताः ।
 
इति ।। बुधवनार्केदयाञ्च लङ्कायां । कृतयुगादी बुधवारे लङ्कायां सूर्योदयमा
रभ्य। श्रजात् मेषादिमारभ्य राशिचक्रे गच्छतां रव्यादीनां भगणा यत्रोक्ता
इत्यर्थः । सूर्योदयो मध्यसूर्योदयः कल्पारम्भस्तु स्फुटसूर्योदयः । तत्र मध्यमस्फुट
पोर्विशेषाभावात् ॥ कल्पकालान्तर्गतमनून गतकालच तृतीयसूत्रेणा |
 
"
 
काहोमनवो मनुयुग श्ख गतास्ते च मनुयुग हूना च ।
कल्पादेर्युगपादा ग च गुरुदिवसाच्च भारतात्पूर्व |॥३॥ -
काहोमनवोक कस्य ब्रह्मणः । ग्रहः अनि मनवो 5 चतुर्दश भवन्ति ।
मनुयुग श्व। एकैकस्य मनोः काले युगानि चतुर्युगाणि शव | श सप्ततिः ।
व द्वयं । द्वासप्ततिरित्यर्थः । गतास्ते च । एतस्मादर्तमानात्कलियुगात्पूर्वमती
तास्ते मनवः। च षट्। मनुयुग ठूना च । वर्तमानस्य सप्तमस्य मनोः। श्रुतीतानि