This page has been fully proofread once and needs a second look.

ऽपि भ्रमति। अतो रवेर्युगभगणयुतभूदिवसैस्तुल्या नक्षत्रमण्डलस्य भ्रमणमि-
तिर्भवति। सैवात्रोक्ता स्यात् ॥ शनि ढुङ्विघ्व इति । शनेर्युगभगणाः। ढु
अयुतानाञ्चतुर्दश | ङि पञ्चशतं । वि षट्सहस्रं | घ चत्वारि | व षष्टिः ॥
गुरु ख्रिच्युभ इति । गुरोर्भगणाः । खि इति द्विशतं । रि इति चतुस्सहस्रं ।
चु इत्ययुतषट्कं । यु इति लक्षत्रयं । भ इति चतुर्विंशतिः ॥ कुज भद्लि
झ्नुखृ इति। कुजस्य भगणाः । भ चतुर्विंशतिः । दि अष्टशताधिकसहस्रं ।
लि पञ्चसहस्रं | झु अयुतनवकं । नु लक्षद्वयं | खृ प्रयुतदयं । अत्र संख्या-
योगे भगणसिद्धिः ॥ भृगुबुध सौराः । भृगुबुधयोर्युगभगणास्सौरा एव। सूर्य-
गणाः ख्युघृ एव ।
 
एवं प्रथमसूत्रेण रव्यादीनां युगभगणान् प्रदर्श्य द्वितीयसूत्रेण चन्द्रो-
च्चभगणान् बुधभृग्वोश्शीघ्रोच्चभगणांश्च शेषाणां कुजगुरुशनैश्चराणां शीघ्रोच्चञ्च
चन्द्रपातभगणांच भगणारम्भकालञ्चाह ।
 
चन्द्रोच्च ज्रुष्खिध बुध सुगुशिथृन भृगु जषबिखुछृ शेषार्काः ।
बुफिनच पातविलोमा बुधाद्ययजार्कोदयाच्च लङ्कायां ॥ २ ॥
 
चन्द्रोच्चस्य ज्रुष्खिध इति भगणाः । र्जुष्खिध इति वा पाठः । जु अयुताष्टकं ।
रु लक्षचतुष्कं । षि अष्टसहस्रं । खि द्विशतं । ध एकोनविंशतिः ॥ बुधस्य
शीघ्रोच्चभगणाः सुगुशिथृन इति । सु लक्षनवकं । गुं अयुतत्रयं । शि सप्तसहस्रं ।
थृ प्रयुतसप्तदशकं । न विंशतिः ॥ भृगोश्शीघ्रोच्चभगणा जषबिखुछृ इति । ज