This page has not been fully proofread.

इत्यनेन वेद्या॥ युगरत्रिभगणाः । चतुर्युगे रवेर्भगणाः युघृ इति । उकार-
युतखकारेणायुतद्वयमुक्तं । उकारयुतयकारेण लक्षत्रयं । एवं सर्वत्र हल्द्वये
एक एव स्वर उभयत्र सम्बध्यते । ऋकारयुतघकारेण प्रयुतचतुष्कं । एवमनेन
न्यायेन सर्वत्र संख्या वेद्या । शशि । शशिन इत्यर्थः । सूत्रे द्यविभक्तिकोऽपि
प्रयोगस्स्यात्। चयगियिङुशुछ्लृ इति युगभगणाश्शशिनः । च षठ् । य त्रिंशत् ।
<error>शि</error> <fix>गि</fix> त्रिशतं | यि त्रिसहस्रं । ङु युतपञ्चकं । शु लक्षसप्तकं । छृ प्रयुतसप्तकं ।
लृ कोठिपञ्चकं । इति ॥ कु | भूमेरित्यर्थः । डिशिवणय इति भगणाः ।
प्राक् प्राग्गत्या सम्भूता भगणा इत्यर्थः । णु पञ्चदशार्बुद | नवमस्थाने पञ्च
दशमस्थाने एकञ्चेत्यर्थः। खू प्रयुतयं । पृ कोयटकं । भूखंभ्रमणं
तस्य चतुर्युगे संभूता संख्यात्रोक्ता | भूमिचिलेति प्रसिद्धा तस्याः कथमंत्र
भ्रमणकयनं । उच्यते । प्रवहाक्षेपात्यश्चिमाभिमुखं भ्रमतो नक्षत्रमण्डलस्य मि
ध्याज्ञानवशाहूमेभ्रमणं प्रतीते। तकृत्येक भूमेश्रमणमुक्तं। वस्तुतस्तु न
भूमेश्रमणमस्ति। अतो नक्षत्रमण्डलस्य भ्रमणप्रदर्शनपरमत्र भूभ्रमणकघनमिति
वेद्यं । वक्ष्यतिच मिथ्याज्ञानं *)
 
अनुलोमगतिर्नेस्थः पश्यत्यचलं विलोमगं बद्धत् ।
 
अचलानि भानि समपश्चिमगानि लङ्कायां ।।
 
इति। ग्रहोरात्रेण हि भगोलस्य समस्तभागभ्रमणादूर्ध वेर्दिनगतितुल्यभागी
 
*) गोलपादे
 
2