This page has been fully proofread once and needs a second look.

स्स्वरास्स्थानप्रदर्शका भवन्ति न संख्याविशेषप्रदर्शका इति । कथं नवसंख्या
अष्टादशके प्रयुज्यन्ते। इत्यत्राह| वर्गे ऽवर्गे । इति । वर्गस्थानेषु नवस्वका-
राया नव स्वराः क्रमेण प्रयुज्यन्ते । तथा अवर्गस्थानेषु च त एव । एव-
मन्यैरपि कल्प्यं । तथा प्रथमस्वरयुतैर्यकारादिभिर्विहिता संख्या प्रथमे अव-
र्गस्थाने स्थाप्या। द्वितीयस्वरयुतैर्द्वितीये अवर्गस्थाने । एवमन्यैरपीति। एव-
मष्टादशस्थानेषु संख्या वेद्या ॥ यदा पुनस्ततो ऽधिकापि संख्या केनचिद्विव-
क्षिता तदा कथमित्यत्राह | नवान्त्यवर्गे वा । इति । नवानां वर्गस्थानाना-
मन्त्ये ऊर्ध्वगते वर्गस्थाननवके तथा नवानामवर्गस्थानानामन्त्ये ऊर्ध्वगते
अवर्गस्थाननवके च एते नव स्वरा प्रयुज्यन्ते वा। केनचिदनुस्वारादिवि-
शेषेण संयुक्ताः प्रयोज्या इत्यर्थः । शास्त्रव्यवहारस्त्वष्टादशस्थानानि नातिवर्तते ॥
 
अथ चतुर्युगे रव्यादीनां भगणसंख्यामाह।
 
युगरविभगणाः ख्युघृ शशि चयगियिङुशुछ्लृ कु ङिशिषुणॢख्षृ प्राक् ।
शनि ढुङ्विघ्व गुरु ख्रिच्युभ कुज भद्लिक्झ्नुखृ भृगुबुध सौराः ॥१॥
 
अष्टादशस्थानगतानां संख्यानां संज्ञा तु
 
एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः ।
अर्बुदमां सर्वनिखर्वमहापद्मशङ्कवस्तस्मात् ॥
 
जलधिञ्चान्त्यं मध्यं परार्धमिति दशगुणोत्तरं संज्ञाः । *)
 
--------
 
*) तथा लीलावत्याम्