This page has been fully proofread once and needs a second look.

इति ॥ वर्गाक्षराणि वर्गे । ककारादीनि मकारातानि वर्गाक्षराणि । तानि
वर्गस्थाने एकशतायुताद्योजस्थाने स्थाप्यानि एवं क्रमेण संख्या वेद्या ॥ अवर्गे
अवर्गाक्षराणि | यकारादीनि अवर्गाक्षराणि | तान्यवर्गस्थाने दशसहस्रलक्षा-
दियुग्मस्थाने स्थाप्यानि। कात् ककारादारभ्य संख्या वेद्या । ककार एकसंख्यः
खकारो द्विसंख्य एवं क्रमेण संख्या वेया। ञकारो दशसंख्यः । ठकार एका-
दशसंख्यः । नकारो विंशतिसंख्यः | मकारः पञ्चविंशतिसंख्यः । एवं लिपिपा-
ठक्रमेण संख्या वेद्या॥ ङ्मौ यः । ङकारमकारयोर्योगेन तुल्यो यकारः । पञ्चसं-
ख्यायाः पञ्चविंशतिसंख्यायाश्च योगस्त्रिंशन्संख्य इत्यर्थः । अत्र प्रथमस्थानमङ्गीकृत्य
त्रिंशदित्युत्तां नतु द्वितीयस्थानमकृत्य द्वितीयस्थाने हि त्रिसंख्यो यकारः ।
इत्युक्तं भवति । रेफादयः क्रमेण द्वितीयस्थाने चतुरादिसंख्यास्युः । हकारो
द्वितीयस्थाने दशसंख्यः शतसंख्यावाचक इत्यर्थः । एवमवर्गस्थानविहितापि
हकारसंख्या संख्यान्तरत्वेन वर्गस्थाने स्थाप्यते । एवं ञकारादिसंख्या वर्ग-
स्थानविहिताप्यवर्गस्थाने संख्यान्तरत्वेन स्थाप्यते । एतद्वि न्यायतस्सि । अत्र
गतुल्यो यकार इति वक्तव्ये ङ्मौ य इति वर्णद्वयेन यदुक्तं तेन संयुक्तैरप्य-
क्षरैस्संख्या प्रतिपादयिष्यत इति प्रदर्शितं भवति ॥ शून्यभूतानामनङ्गीकृत-
संख्याविशेषाणां के प्रयुज्यन्ते । इत्यत्राह। खद्विनवके स्वरा नव वर्गे ऽवर्गे।
इति । द्विनवके अटादशके नव स्वराः क्रमेण प्रयुज्यन्ते । अ इ उ ऋ ऌ
ए ऐ ओ औ । इत्येते नव स्वराः । एतदुक्तं भवति । ककाराद्यक्षरगता-