This page has been fully proofread once and needs a second look.

अविघ्नमस्तु
 
यत्तेजः प्रेरयेत् प्रज्ञां सर्वस्य शशिभूषणं ।
मृगङ्काभवेष्टाङ्कत्रिनेत्रन्त्तमुपास्महे ॥
लीलावती भास्करीयं लघु चान्यच्च मानसं ।
व्याख्यातं शिष्यबोधार्थं येन प्राक्तेन चाधुना ॥
तन्त्रस्यार्यभटीयस्य व्याख्याल्पा क्रियते मया ।
परमादीश्वराख्येन नाम्नात्र दीपिका ॥
 
तत्रासमाचार्य श्रार्यभटो विघ्नोपशमनार्थ स्वेष्टदेवतानमस्कारं प्रतिपाद्य वस्तु-
कथनञ्चार्यकृपया करोति ।
 
प्रणिपत्यैकमनेकं कं सत्यां देवतां परं ब्रह्म ।
आर्यभटस्त्रीणि गदति गणितं कालक्रियां गोलं ॥
 
इति ॥ केकं ब्रह्माणं एकं कारणहपेणैकं अनेकं कार्यॠपेणानेकं सत्यां देवतां
देव एव देवता। स्वयम्भूरेव पारमार्थिको देव अन्ये तेन सृष्टा इत्यपारमा-