This page has not been fully proofread.

मुखमई शरीरस्य सर्व वा मुखमुच्यते ।
तत्रापि नासिकाग्रेष्ठा श्रेष्ठे तत्रापि चक्षुषी ||
इति न्यायेन वेदपुरुषस्य चक्षुद्रेन प्रधानमंगमवश्यमध्येतव्यमिति स्मृत्यादी
भगवता ब्रह्मणा बहुविस्तरं ज्योतिश्शास्त्रं कृतं ब्रह्मणस्सकाशादधीततच्छा-
स्त्री वृद्धगर्गः तत्संनियान्यञ्चकार (. चकार ) । तस्मादपि तब्धतद्विवाः
पराशरादिमुनयो भ्यन्यानि ज्योतिण्णास्त्राणि चक्रुः ॥ तथाच वृद्धगर्गः
 
स्वयं स्वयंभुवा सृदचतुर्भूतन्दिजन्मनां ।
वेदांशं ज्योतिषं ब्रह्म समं वेदैर्विनिस्सृतं ॥
मया स्वयंभुवः प्राप्तं क्रियाकालप्रसाधकं ।
वेदानामुत्तमं शास्त्रं त्रैलोक्यहितकारकं ।।
मत्तश्चान्यानुषीनं प्राप्तं पारम्पण पुष्कलं |
तैस्तथादृष्टिभिर्भूयो ग्रन्यैस्तैस्तैरुदाकृतं ।।
 
तथाच गर्गः ।
 
यतां स्वर्ग्यमायुष्यं धर्म्यं पुण्यं यशस्करं |
ज्ञानविज्ञानसंपन्नं द्विज्ञानां पावनं परं ||
कालज्ञानमिदं पुण्यमा विज्ञानमुत्तमं ।
सिसूक्षुणा पुरा वेदानेतत् सृष्टं स्वयंभुवा ||
वेदांगमाद्यं वेदानां क्रियाणाञ्च प्रसाधकं ।
ज्योतिज्ञानं द्विजेन्द्राणामतो वेयं विदुर्बुधाः ||
ज्योतिषशास्त्रात्तु सर्वस्व लोकस्यातं शुभाशुभं |
ज्योतिज्ञानञ्च यो वेत्ति स वेत्ति परमागकं ||