This page has not been fully proofread.

चलेति । चलकुण्डलम्, चलदलकम्, किंकिञ्चिद्दूरीभूतस्तन वसनम्, संघट्टवदूरुयुग्मम्,
जघनभारश्रमसंकुचितनेत्रमस्या इदं गतं गमनं हरति । मन्मन इति भावः । जातिवर्ण-
नमेतत् । 'जातिरप्राणिनाम्' इत्यनेन चलकुण्डलेत्यादा वेकवद्भावः । अस्या इदम् । सर्व-
मित्यर्थः । गतं गमनम् । ममेति भावः । हरति । इत्यपि योजना ॥
 
भाग्यवत्संनिहितानुपकारिजन सेवाकारिणं कश्चिदन्योक्त्या वक्ति--
 
चरणैः परागसैकतमफलमिदं लिखसि मधुप केतक्याः ।
इह वसति कान्तिसारे नान्तःसलिलापि मधुसिन्धुः ॥ २२७ ॥
 
चरणैरिति । हे मधुप । एवं च विवेक विधुरत्वं व्यज्यते । पदैः । बहुवचनेनोद्योग-
शालित्वं ध्वन्यते । केतक्या इदं परागरूपसैकतम् । सैकतपदेन सलिलाशायोग्यत्वं
व्यज्यते । व्यर्थेथं लिखसि । व्यर्थत्वमेवाह--कान्तिरेव सारो यत्र । इह परागसैकते
नान्तः सलिलापि । अपिना बहि:सलिलव्यवच्छेदः । मकरन्दनदी तिष्ठति । एवं च
स्वरूपमात्रशालिष्वेतेषु न दयालेशः, अतोऽत्र नाशा त्वया विधेयेति ध्वन्यते । यद्वा
कस्याश्चिन्नायिकायाः संगमाशया तत्संनिहितप्रदेशे यातायातकारिणं काचिदन्योक्त्या
वक्ति । एवं चैतस्याः खास्वान्तरेऽपि न मद इति व्यज्यते । तेन चेयं सतीति । तेनात्र
तवानर्थकः श्रम इति ॥
 
नायिकाङ्गीननखक्षतकिणदर्शन संजातसंशयं नायकं नायिकासखी वक्ति--
 
चिरकालपथिक शङ्कातरङ्गिताक्षः किमीक्षसे मुग्ध ।
त्वन्निस्त्रिंशाश्लेषत्व्रणकिणराजीयमेतस्याः ॥ २२८ ॥
 
चिरेति । हे चिरकालीनपथिक । एवं च विरहातिशयादुन्मादान्निस्त्रिंशालिङ्गनकारि-
त्वौचित्यं ध्वन्यते । मुग्ध सुन्दर । अथ च मूढ । संशयेन । व्रणाः किंजन्या एवंरूपेण ।
तरङ्गितं कृतं दूरव्यापारवत्कृतमक्षि येन सः । किमीक्षसे । एतस्यास्त्वदीयो यस्त्रिंशद-
ङ्गुल्यधिकः खड्गस्तदा लिङ्गनव्रणकिणपङ्किक्तिरियम् । एवं च क्षतादिवेदनाम विचार्याप्यनया
त्वदीयत्वेन प्रीतिपात्रत्वत्खड्गालिङ्गनेन समतिवाहितोऽतितरां समयः । अतो नैतस्याम-
न्यथा संभावनीयं बहुतरदिवसपरदेशावस्थिति रूपापराधशालिना त्वयेति ध्वन्यते । एवं
चैतस्या यथा त्वयि प्रेमातिशयस्तथा न कस्याश्चित् कस्मिंश्चिदिति व्यज्यते ॥
 
स्वाविवेकाच्चाञ्चल्यदोषशालिनीं निजनायिकां ताडयन्तं कंचन तत्प्रतिवेशी तदङ्गना-
लम्पटतया तं प्रति कलहं कर्तुमुद्यतोऽपि निरुद्ध इति काचिदन्योक्त्या वक्ति--
 
चपलां यथा मदान्धरछायामयमात्मनः करी हन्ति ।
आस्फालयति करं प्रतिगजस्तथायं पुरो रुद्धः ॥ २२९ ॥ E
 
चपलामिति । मदान्धः । एवं चानुचितकारित्वं व्यज्यते । अयं करी । आत्मनश्चपलां