This page has not been fully proofread.

आर्यासप्तशती ।
 
चलेति । चलकुण्डलम्, चलदलकम्, किंचिदूरीभूतस्तन वसनम्, संघट्टवदूरुयुग्मम्,

जघनभारश्रमसंकुचितनेत्रमस्या इदं गतं गमनं हरति । मन्मन इति भावः । जातिवर्ण-

नमेतत् । 'जातिरप्राणिनाम्' इत्यनेन चलकुण्डलेत्यादा वेकवद्भावः । अस्या इदम् । सर्व-

मित्यर्थः । गतं गमनम् । ममेति भावः । हरति । इत्यपि योजना ॥
 

 
भाग्यवत्संनिहितानुपकारिजन सेवाकारिणं कश्चिदन्योक्त्या वक्ति
 
--
 
चरणैः परागसैकतमफलमिदं लिखसि मधुप केतक्याः ।
 

इह वसति कान्तिसारे नान्तःसलिलापि मधुसिन्धुः ॥ २२७ ॥
 

 
चरणैरिति । हे मधुप । एवं च विवेक विधुरत्वं व्यज्यते । पदैः । बहुवचनेनोद्योग-

शालित्वं ध्वन्यते । केतक्या इदं परागरूपसैकतम् । सैकतपदेन सलिलाश योग्यत्वं

व्यज्यते । व्यर्थे लिखसि । व्यर्थत्वमेवाह--कान्तिरेव सारो यत्र । इह परागसैकते

नान्तः सलिलापि । अपिना बहि:सलिलव्यवच्छेदः । मकरन्दनदी तिष्ठति । एवं च

स्वरूपमात्रशालिष्वेतेषु न दयालेशः, अतोऽत्र नाशा त्वया विधेयेति ध्वन्यते । यद्वा

कस्याश्चिन्नायिकायाः संगमाशया तत्संनिहितप्रदेशे यातायातकारिणं काचिदन्योक्त्या

वक्ति । एवं चैतस्याः खान्तरेऽपि न मद इति व्यज्यते । तेन चेयं सतीति । तेनात्र

तवानर्थकः श्रम इति ॥
 

 
नायिकाङ्गीननखक्षतकिणदर्शन संजातसंशयं नायकं नायिकासखी वक्ति-
-
 
चिरकालपथिक शङ्कातरङ्गिताक्षः किमीक्षसे मुग्ध ।

त्वन्निस्त्रिंशाश्लेषत्रणकिणराजीयमेतस्याः ॥ २२८ ॥
 

 
चिरेति । हे चिरकालीनपथिक । एवं च विरहातिशयादुन्मादान्निस्त्रिंशालिङ्गनकारि-

त्वौचित्यं ध्वन्यते । मुग्ध सुन्दर । अथ च मूढ । संशयेन । व्रणाः किंजन्या एवंरूपेण ।

तरङ्गितं कृतं दूरव्यापारवत्कृतमक्षि येन सः । किमीक्षसे । एतस्यास्त्वदीयो यस्त्रिंशद-

ङ्गुल्यधिकः खड्गस्तदा लिङ्गनवणकिणपङ्किरियम् । एवं च क्षतादिवेदनाम विचार्याप्यनया

त्वदीयत्वेन प्रीतिपात्रत्वत्खड्गालिङ्गनेन समतिवाहितोऽतितरां समयः । अतो नैतस्याम-

न्यथा संभावनीयं बहुतरदिवसपरदेशावस्थिति रूपापराधशालिना त्वयेति ध्वन्यते । एवं

चैतस्या यथा त्वयि प्रेमातिशयस्तथा न कस्याश्चित्कस्मिंश्चिदिति व्यज्यते ॥
 

 
स्वाविवेकाच्चाञ्चल्यदोषशालिनीं निजनायिकां ताडयन्तं कंचन तत्प्रतिवेशी तदङ्गना-

लम्पटतया तं प्रति कलहं कर्तुमुद्यतोऽपि निरुद्ध इति काचिदन्योक्त्या वक्ति-
-
 
चपलां यथा मदान्धरछायामयमात्मनः करी हन्ति ।
 

आस्फालयति करं प्रतिगजस्तथायं पुरो रुद्धः ॥ २२९ ॥ E
 

 
चपलामिति । मदान्धः । एवं चानुचितकारित्वं व्यज्यते । अयं करी । आत्मनश्चपलां
 
Sri Gargeshwari Digital Foundation