2023-03-12 12:37:55 by Pathan Vali Khan
This page has not been fully proofread.
खण्डिता नायकं प्रातस्तनसमीरणाभेदेन वक्ति--
चपलभुजंगीभुक्तोज्झित शीतलगन्धवह निशि भ्रान्त ।
अपराशां पूरयितुं प्रत्यूषसदागते गच्छ ॥ २२३ ॥
चपलेति । प्रातःकालीन वायो । अथवा प्रातःकाले सदा निरन्तरमागतिरागमनं यस्य
एतादृश । एवं च कियन्मया सोढव्यमिति व्यज्यते । चपला या भुजंग्यः सर्पिण्यस्ताभि-
र्भुक्त्वोज्झित । एवं च सविषत्वेन स्पर्शानर्हत्वं व्यज्यते । अथ च चपलाः । एवं च सर्व-
जनवेद्यचाञ्चल्यानां तव तदज्ञानेन मूर्खस्त्वमसीति व्यज्यते । भुजंग्यो वेश्यास्ताभिर्भुक्तो-
ज्झित । एवं चोच्छिष्टरूपत्वेनास्पृश्यत्वं ध्वन्यते । शीतलसमीरण । अथ च शीतलं ग
न्धम् । भोगार्थं परिगृहीतमिति भावः । वहतीति । निशि रात्रौ भ्रमणशील । अथ च
रात्रिभ्रान्तिमन् । एवं च रात्रौ तव पैशाच्यमेव जायत इति व्यज्यते । अपरदिशम् ।
अथ चान्यस्या आशाम् । इच्छामित्यर्थः । पूरयितुं पूर्णां कर्तुम् । अथ च सफलां कर्तुम् ।
गच्छ । एवं चैतादृशस्य तव न ममाशेति व्यज्यते ॥
काचित् कस्याश्चिदवस्थां वक्ति--
चिरपथिकद्राघिममिलदलकलताशैवलावलिग्रथिता ।
करतोयेव मृगाक्ष्या दृष्टिरिदानीं सदानीरा ॥ २२४ ॥
चिरपथिकेति। चिरकालीनो यः पथिकस्तस्य दैर्घ्येण । अतिविलम्बेनेति यावत् । मि-
लन्त्यः । संस्काराभावादिति भावः । याः केशरूपलतास्तद्रूपा या शैवलपङ्क्तिस्तया । प-
क्षेऽलकलतावदित्यर्थः । ग्रथिता । युक्तेति यावत् । अत्र लतापदं परस्परसंलग्नतामावे-
दयति । करतोयेव नदीविशेष इव मृगाक्ष्या दृष्टिरिदानीम् । एवं च पूर्वसमयापेक्षया दुः-
खवत्त्वातिशयो ध्वन्यते । सदानीरा निरन्तराश्रुपूर्णा । पक्षे सदानीरेति करतोयानाम ।
'करतोया सदानीरा' इत्यमरः । यद्वा नायिकासखी नायकं वक्ति । चिरपथिकेति सं-
बुद्धिः । द्राघिम्णा दैर्घ्येण मिलन्त्यः संबन्धवत्यः । अलकलता इत्यादि प्राग्वत् ॥
नायको नायिकां वक्ति--
चण्डि दरचपलचेलव्यक्तोरुविलोकनैकरसिकेन ।
धूलिभयादपि न मया चरणहतौ कुञ्चितं चक्षुः ॥ २२५ ॥
चण्डीति । हे चण्डि । एवं च स्वस्थायानपराधित्वं ध्वन्यते । ईषच्चञ्चलचेलेन प्रकटो-
चर्वोर्विलोकनं तदेकरसिकेन मया त्वत्कृतचरणहनने रेणुत्रासादपि । एवं च न ताडन-
त्रास इति भावः । चक्षुर्न संकोचितम् । एवं चाहं त्वय्यत्यन्तासक्तः, अतो मानं परि-
त्यज्य सुखयितव्योऽहमिति ध्वन्यते ॥
कश्चित्कंचिद्वक्ति---
चलकुण्डलचलदलकस्खलदुरसिजवसनसज्जदूरुयुगम् ।
जवघनभरक्लमकूणितनयनमिदं हरति गतमस्याः ॥ २२६ ॥
चपलभुजंगीभुक्तोज्झित शीतलगन्धवह निशि भ्रान्त ।
अपराशां पूरयितुं प्रत्यूषसदागते गच्छ ॥ २२३ ॥
चपलेति । प्रातःकालीन वायो । अथवा प्रातःकाले सदा निरन्तरमागतिरागमनं यस्य
एतादृश । एवं च कियन्मया सोढव्यमिति व्यज्यते । चपला या भुजंग्यः सर्पिण्यस्ताभि-
र्भुक्त्वोज्झित । एवं च सविषत्वेन स्पर्शानर्हत्वं व्यज्यते । अथ च चपलाः । एवं च सर्व-
जनवेद्यचाञ्चल्यानां तव तदज्ञानेन मूर्खस्त्वमसीति व्यज्यते । भुजंग्यो वेश्यास्ताभिर्भुक्तो-
ज्झित । एवं चोच्छिष्टरूपत्वेनास्पृश्यत्वं ध्वन्यते । शीतलसमीरण । अथ च शीतलं ग
न्धम् । भोगार्थं परिगृहीतमिति भावः । वहतीति । निशि रात्रौ भ्रमणशील । अथ च
रात्रिभ्रान्तिमन् । एवं च रात्रौ तव पैशाच्यमेव जायत इति व्यज्यते । अपरदिशम् ।
अथ चान्यस्या आशाम् । इच्छामित्यर्थः । पूरयितुं पूर्णां कर्तुम् । अथ च सफलां कर्तुम् ।
गच्छ । एवं चैतादृशस्य तव न ममाशेति व्यज्यते ॥
काचित् कस्याश्चिदवस्थां वक्ति--
चिरपथिकद्राघिममिलदलकलताशैवलावलिग्रथिता ।
करतोयेव मृगाक्ष्या दृष्टिरिदानीं सदानीरा ॥ २२४ ॥
चिरपथिकेति। चिरकालीनो यः पथिकस्तस्य दैर्घ्येण । अतिविलम्बेनेति यावत् । मि-
लन्त्यः । संस्काराभावादिति भावः । याः केशरूपलतास्तद्रूपा या शैवलपङ्क्तिस्तया । प-
क्षेऽलकलतावदित्यर्थः । ग्रथिता । युक्तेति यावत् । अत्र लतापदं परस्परसंलग्नतामावे-
दयति । करतोयेव नदीविशेष इव मृगाक्ष्या दृष्टिरिदानीम् । एवं च पूर्वसमयापेक्षया दुः-
खवत्त्वातिशयो ध्वन्यते । सदानीरा निरन्तराश्रुपूर्णा । पक्षे सदानीरेति करतोयानाम ।
'करतोया सदानीरा' इत्यमरः । यद्वा नायिकासखी नायकं वक्ति । चिरपथिकेति सं-
बुद्धिः । द्राघिम्णा दैर्घ्येण मिलन्त्यः संबन्धवत्यः । अलकलता इत्यादि प्राग्वत् ॥
नायको नायिकां वक्ति--
चण्डि दरचपलचेलव्यक्तोरुविलोकनैकरसिकेन ।
धूलिभयादपि न मया चरणहतौ कुञ्चितं चक्षुः ॥ २२५ ॥
चण्डीति । हे चण्डि । एवं च स्वस्

ज