2023-02-27 22:10:24 by ambuda-bot
This page has not been fully proofread.
आर्यासप्तशती ।
८९
नामपि लक्ष्मीर्जायते, सोद्यमानामपि नश्यतीति दैवमेव संपद्रक्षणे क्षममिति ध्वन्यते ।
यद्वा या ह्यङ्गनान्यत्र गन्तुकामा सा न केनापि रक्षितुं शक्येति कश्चिद्वक्ति । पलाशव-
त्कपाटम् । एवं च दूरीकरणार्हत्वं व्यज्यते । पद्मा इव पद्माः । उजागरेण । उत्कृष्टरक्ष-
णेनेति यावत् । लक्ष्मीपदेन चञ्चलस्खाभाव्यमभिव्यज्यत इत्यर्थः ॥
कश्चित्प्रातःकालं वर्णयति-
घूर्णन्ति विप्रलब्धाः स्नेहापायात्प्रदीपकलिकाश्च ।
प्रातः प्रस्थितपान्थस्त्रीहृदयं स्फुटति कमलं च ॥ २२० ॥
घूर्णन्तीति । विप्रलब्धा वियोगिन्यः । यद्वा संकेत निकेतने प्रियतमाप्राप्तिसमाकुलह-
दया विप्रलब्धाः । प्रदीपकलिकाश्च । स्नेहस्य प्रीतेस्तैलस्य च नाशाद्धूर्णन्ति । मनोरथादि-
भिरघुना समायास्यतीति धिया च संपूर्णयामिनीजागरादिति भावः । विनश्वरा भवन्ति
च । प्रस्थितो न तु गतो यो पान्थस्तत्कान्ताहृदयं कमलं च प्रातः स्फुटति द्वेधा भवति ।
दुःखोद्रेकादिति भावः । विकसति च । यद्वा जातोऽयं प्रातःकालः, अत इतोऽपसरणं
सम्यगिति सखी नायकं वक्तीत्यर्थः ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता घकारव्रज्या ।
चकारव्रज्या ।
काचित्कांचिद्वक्ति–
चपलस्य पलितलाञ्छितचिकुरं दयितस्य मौलिमवलोक्य ।
खेदोचितेऽपि समये संमदमेवाददे गृहिणी ॥ २२१ ॥
चपलस्येति । चपलस्य । एवं च पराङ्गनालम्पटत्वं व्यज्यते । दयितस्य । एवं च
प्रीतियोग्यत्वं ध्वन्यते । मौलिं जराचिह्नित केशमवलोक्य खेदार्हेऽपि । खस्याप्यसमीची-
नत्वादिति भावः । समय आनन्दमेव गृह्णाति । स्वस्याप्यकार्यसंतोषेण नायके सामा-
न्याङ्गनालम्पटत्वेन द्वेषातिशयो व्यज्यते ॥
नायिकां नायको वक्ति -
चण्डि प्रसारितेन स्पृशन्भुजेनापि कोपनां भवतीम् ।
तृप्यामि पङ्किलामिव पिबन्नदीं नलिननालेन ॥ २२२ ॥
चण्डीति । हे चण्डि, प्रसारितेन । एवं च निकटवर्तित्वाभावो व्यज्यते । भुजेनापि ।
नीरसेनेति भावः । कोपनां भवतीं स्पृशन् । यद्वा अपिरत्रान्वेति । एवं च तृप्त्यजन-
कत्वं ध्वन्यते । तृप्तिं प्राप्नोमि । पङ्किलां नदीं नलिननालेन पिबन्निव । नलिननालेन पाने
स्वच्छजलागमनात्तृप्तिः । एवं च मम दुःखाजनकत्वेन त्वन्मानधारणमनर्थकम्, अतस्त्यज
मानमिति द्योत्यते । भुजे नालसमताप्रतिपादनेन कोमलत्वपाण्डुरत्वसूक्ष्मत्वशीतलत्वानि
व्यज्यन्ते । तैश्वाशेयस्पर्शत्व विरहक्षीणत्व संतप्तत्व सुखदत्वानि ॥
रस्वसूक्ष्मत्वशीतलत्वानि