This page has not been fully proofread.

गुर्विति । स्फुटनखपदनिवेशनेन । नायकदत्तेनेति भावः । कृतो यः कोपः । लोक-
ज्ञानभिया । तेन कुटिलभ्रुकुटि । गुरुपक्ष्म । सालसत्वादिति भावः । जागरणेन रक्तं
तेनैव घूर्णत्तारमिदं तव नेत्रं महता क्लेशेनापि वलते परिवर्तते । नखपदनिवेश इति भावः।
एवं चैकनखक्षतविलोकनेन क्रुध्यसि, परमन्यानि नखक्षतानि नावलोकयसि । रात्रिजा-
गरबाहुल्यालसनेत्रतयेति भावः । एवं च तदानीं न कापि भीतिः कृता, इदानीं तत्कर-
णमनर्थकमिति व्यज्यते । यद्वा प्रकटनखक्षतदर्शनेन कोपः क्रियते । अप्रकटानि च
बहूनि सन्ति । तद्दर्शनं च ते सालसनेत्रतया न भावीति द्योत्यते । 'निवेशने' इति पाठे
स्फुटनखपदस्य निवेशने दाने कोपेन कुटिलभ्रु । स्फुटपदेन दृढत्वमावेद्यते । क्वचित्
'दृढ' इत्येव पाठः । गुरुपक्ष्म । सालसत्वादिति भावः । जागरारुणघूर्णत्तारमिदं नयनम् ।
'तव' इति पदानुपादानं नयने नायिकाविधेयत्वं ध्वन्यते । कथंचिद्वलते । एवं च गम-
नकालीननखक्षतदानेऽपि केवलं भ्रुकुटिकौटिल्यमेव करोषि, परं तु रात्र्यतिशयितरत-
निःसहतया नेत्रव्यापारमपि कर्तुं न शक्नोषि । तत्र का वार्तोत्थाय करग्रहादेरिति भाव
इति नायिकासखीवाक्यमिदम् । केचित् 'स्वनायकेन सह क्रीडातिवाहितरजनीं स्फुट-
तरनखक्षतदर्शनजातलजावशादुत्पन्नक्रोधां नायिकां सखी वक्ति' इत्याहुः ॥
 
इत्यनन्तपण्डितकृतगोवर्धन सप्तशती व्यङ्ग्यार्थदीपनया समेता गकारव्रज्या ।
--------------------------------
 
घकारव्रज्या ।
 
नायिकासखी नायकं वक्ति--
 
घटितजघनं निपीडितपीनोरु न्यस्तनिखिलकुचभारम् ।
आलिङ्गन्त्यपि बाला वदत्यसौ मुञ्च मुञ्चेति ॥ २१८ ॥
 
घटितेति । घटितजघनमित्यादिना रतेच्छावत्त्वमावेद्यते । आलिङ्गनकारिण्यप्यसौ बाला
तरुणी मुञ्च मुञ्चेति वक्ति । एवं चैतस्या मुञ्च मुञ्चेति वचनं मिथ्येति विज्ञाय वर्तितव्यं
त्वयेति द्योत्यते । 'आलिङ्गति' इति पाठ आलिङ्गति वदत्यपीति योजनायां वचनसमय
आलिङ्गनसत्वेन विरुद्धकार्यकारितया रतिनिर्भरत्वं ध्वन्यत इत्यर्थः । नायकवचनं वा
वयस्यं प्रति ॥
 
अदृष्टवशादेव लक्ष्मीः स्थिरा भवति, न यत्नेनेति कश्चिद्वक्ति--
 
घटितपलाशकपाटं निशि निशि सुखिनो हि शेरते पद्माः ।
उज्जागरेण कैरव कति शक्या रक्षितुं लक्ष्मीः ॥ २१९ ॥
 
घटितेति । घटितं पत्त्ररूपं कपाटं यत्र । 'पत्त्रं पलाशं छदनम्' इत्यमरः । निशि
निशि । एवं च सर्वदोद्यमशून्यत्वम् । सुखवन्तः पद्माः । 'वा पुंसि पद्मम्' इत्यमरः
स्वपन्ति । पद्मानां सूर्यविकासित्वाद्रात्रौ संकोच इति भावः । हे कैरव, उत्कृष्टजागरेण
लक्ष्मीः कियद्रक्षितुं शक्या । चन्द्रविकासित्वात् कैरवाणामिति भावः । एवं च निरुद्यमा-