This page has not been fully proofread.

काव्यमाला ।
 

 

 

 
गुर्विति । स्फुटनखपदनिवेशनेन । नायकदत्तेनेति भावः । कृतो यः कोपः । लोक-

ज्ञानभिया । तेन कुटिलभ्रुकुटि । गुरुपक्ष्म । सालसत्वादिति भावः । जागरणेन रक्तं

तेनैव घूर्णत्तारमिदं तव नेत्रं महता क्लेशेनापि वलते परिवर्तते । नखपदनिवेश इति भावः।

एवं चैकनखक्षतविलोकनेन क्रुध्यसि, परमन्यानि नखक्षतानि नावलोकयसि । रात्रिजा-

गरबाहुल्यालसनेत्रतयेति भावः । एवं च तदानीं न कापि भीतिः कृता, इदानीं तत्कर-

णमनर्थकमिति व्यज्यते । यद्वा प्रकटनखक्षतदर्शनेन कोपः क्रियते । अप्रकटानि च

बहूनि सन्ति । तद्दर्शनं च ते सालसनेत्रतया न भावीति द्योत्यते । 'निवेशने' इति पाठे

स्फुटनखपदस्य निवेशने दाने कोपेन कुटिलभ्रु । स्फुटपदेन दृढत्वमावेद्यते । क्वचित्

'दृढ' इत्येव पाठः । गुरुपक्ष्म । सालसत्वादिति भावः । जागरारुणघूर्णत्तारमिदं नयनम् ।

'तव' इति पदानुपादानं नयने नायिकाविधेयत्वं ध्वन्यते । कथंचिद्वलते । एवं च गम-

नकालीननखक्षतदानेऽपि केवलं भ्रुकुटिकौटिल्यमेव करोषि, परं तु रात्र्यतिशयितरत-

निःसहतया नेत्रव्यापारमपि कर्तुं न शक्नोषि । तत्र का वार्तोत्थाय करग्रहादेरिति भाव

इति नायिकासखीवाक्यमिदम् । केचित् 'स्वनायकेन सह क्रीडातिवाहितरजनीं स्फुट-

तरनखक्षतदर्शनजातलजावशादुत्पन्नक्रोधां नायिकां सखी वक्ति' इत्याहुः ॥
 

 
इत्यनन्तपण्डितकृतगोवर्धन सप्तशती व्यङ्ग्यार्थदीपनया समेता गकारव्रज्या ।
 

--------------------------------
 
घकारव्रज्या ।
 

 
नायिकासखी नायकं वक्ति -
 
--
 
घझितजघनं निपीडितपीनोरु न्यस्तनिखिलकुचभारम् ।

आलिङ्गन्त्यपि बाला वदत्यसौ मुञ्च मुञ्चेति ॥ २१८ ॥
 

 
घटितेति । घटितजघन मित्यादिना रतेच्छावत्त्वमावेद्यते । आलिङ्गनकारिण्यप्यसौ बाला

तरुणी मुञ्च मुश्चेति वक्ति । एवं चैतस्या मुञ्च मुश्चेति वचनं मिथ्येति विज्ञाय वर्तितव्यं

त्वयेति द्योत्यते । 'आलिङ्गति' इति पाठ आलिङ्गति वदत्यपीति योजनायां वचनसमय

आलिङ्गनसत्वेन विरुद्धकार्यकारितया रतिनिर्भरत्वं ध्वन्यत इत्यर्थः । नायकवचनं वा

वयस्यं प्रति ॥
 

 
अदृष्टवशादेव लक्ष्मीः स्थिरा भवति, न यत्नेनेति कश्चिद्वक्ति-
-
 
घटितपलाशकपाटं निशि निशि सुखिनो हि शेरते पद्माः ।

उज्जागरेण कैरव कति शक्या रक्षितुं लक्ष्मीः ॥ २१९ ॥

 
घटितेति । घटितं पत्ररूपं कपाटं यत्र । 'पत्रं पलाशं छदनम्' इत्यमरः । निशि

निशि । एवं च सर्वदोद्यमशून्यत्वम् । सुखवन्तः पद्माः । 'वा पुंसि पद्मम्' इत्यमरः

खपन्ति । पद्मानां सूर्यविकासित्वाद्रात्रौ संकोच इति भावः । हे कैरव, उत्कृष्टजागरेण

लक्ष्मीः कियद्रक्षितुं शक्या । चन्द्रविकासित्वात्कैरवाणामिति भावः । एवं च निरुद्यमा-
Si Gargeshwin Diginal Foundation