2023-03-11 15:14:17 by Pathan Vali Khan
This page has not been fully proofread.
पूर्वैव तिष्ठसि । किं तु समीरणेन मालायाः सौरभ्यमिवामुना नायकेन ते हृदयं हृतम् ।
एवं च न तवापराध इति भावः । एवं च नास्मल्लजा कार्येति द्योत्यते । एवं च यद्यपि
त्वं यथास्थिता दृश्यसे तथापि त्वच्चित्तं मान्मथावस्थादुस्थं वृत्तमित्यावेद्यते । तेन चा-
स्माकं प्रति गोपनमनर्थकमिति । यद्वा बलाद्देहेन कृतापि धृतिरनर्थकैव, अतो यतस्व
'तन्मिलनायेति व्यज्यते ॥
कश्चित्सखायं वक्ति-
गुरुसदने नेदीयसि चरणगते मयि च मूकयापि तया ।
नूपुरमपास्य पदयोः किं न प्रियमीरितं प्रियया ॥ २१४ ॥
गुर्विति । नेदीयसि निकटे सति । मयि चरणगते प्रणमति सति । एवं च नायिका-
यां मानवत्त्वं द्योत्यते। मूकयापि । गुरुभीत्येति भावः । तया चरणयोः । नूपुरमित्येक-
त्वमविवक्षितम् । अपास्य प्रियया । एवं चैतादृशविधानमुचितमेवेति ध्वन्यते । किं न प्रिय-
मीरितम् । अपि तु सर्वमीरितम् । एवं च शब्दजनकनूपुरत्यागेन रत्यनुमतिर्दत्तेति यो-
त्यते । यद्वा निःशब्दपदसंचारेण त्वयात्र रात्रावागन्तव्यमिति ध्वन्यते । अथवा निष्ठुर-
वचनमूलभूतो मानः परित्यक्तो मयेति व्यज्यते । प्रस्थितैवाहं त्वमग्रे गच्छेति वा ॥
किमिति दरिद्रेऽनुरक्तासीति वादिनीं काचिद्वति-
तु
ग्रन्थिलतया किमिक्षोः किमपभ्रंशेन भवति गीतस्य ।
किमनार्जवेन शशिनः किं दारिद्र्येण दयितस्य ॥ २१५ ॥
ग्रन्थिलतयेति । अनार्जवेन कौटिल्येन । एवं च रसनाश्रवणनयनाद्येकैकसुखप्रदातृ-
तयेक्ष्वादीनां ग्रन्थिलत्वादयो दोषा न गण्यन्ते । किं पुनः सर्वाङ्गीणानन्दप्रदस्य दयितस्य
दारिद्र्यैकदोषो न गण्यत इति । तद्गणनाकारिण्योऽतिभ्रान्ता इति ध्वन्यते । यद्वा प्रन्थ्या-
दिसत्त्वेऽपीक्ष्वादे रसप्रदत्वं नापैति यथा तथा दारिद्र्द्येऽपि न सुखप्रदत्वमपैतीति व्यज्यते ॥
कश्चित्सखायं वक्ति-
गेहिन्या चिकुरग्रहसमयससीत्कारमीलित दृशापि ।
बालाकपोलपुलकं विलोक्य निहतोऽस्मि 'शिरसि पदा ॥ २१६ ॥
गेहिन्येति । केशग्रहस्य । चुम्बनार्थमिति भावः । समये ससीत्कारं मीलितदृशापि
गेहिन्या बालायाः कपोलसंबन्धि पुलकम् । चुम्बनजन्यमिति भावः । विलोक्य शिरसि
चरणेन निहतोऽस्मि । कथमीदृशावसरेऽप्येतादृशमकारि त्वयेति दोषख्यापनेनेति भावः ॥
नायकान्तरातिशयितरतातिवाहितयामिनीं प्रातस्तद्दत्त नखक्षतावलोकनकृतक्रोधां ना.
यिकां सखी वक्ति-
•
गुरुपक्ष्म जागरारुणघूर्णत्तारं कथंचिदपि वल
नयनमिदं स्फुटन खपदनिवेशकृतकोपकुटिलभु ॥ २१७ ॥
DE