This page has been fully proofread once and needs a second look.

समा । अत एव तुले उचितज्ञासि । कनकं गुञ्जाफलैस्तुलयसीदं किम् । एवं चात्रैव
तवोचितज्ञता कुत्र गतेति व्यज्यते ॥
 
कश्चिद्गेहिनीसखीं वक्ति--
 
गेहिन्या ह्रियमाणं निरुध्यमानं नवोढया पुरतः ।
मम नौकाद्वितयार्पितगुण इव हृदयं द्विधा भवति ॥ २०९ ॥
 
गेहिन्येति । गेहिन्या प्रौढया ह्रियमाणम् । न तु हृतमिति भावः । नवोढया पुरतो
निरुध्यमानम् । न तु निरुद्धम् । मम नौकाद्वितयं विपरीतगामि तत्संबन्धिगुण इव
हृदयं द्विःप्रकारं भवति । नौकासमताप्रतिपादनेनोभयत्र रससंबन्धित्वं ध्वन्यते । एवं
चोभयत्र समप्रीतिरहमस्मीति व्यज्यते । 'पद इव' इति क्वचित् पाठः ॥
 
एकत्रैव गुणे दृढा परिचितिरुचिता, न तु सर्वत्र यथाकथंचिदिति कश्चिद्वक्ति--
 
गुण आकर्षणयोग्यो धनुष इवैकोऽपि लक्षलाभाय ।
ऌतातन्तुभिरिव किं गुणैर्विमर्दासहैर्बहुभिः ॥ २१० ॥
 
गुण इति । आकर्षणाय योग्यः । विचारक्षम इत्यर्थः । पक्षे यथाश्रुतम् । एवं च
दृढत्वं ध्वन्यते । गुणो धनुष इवैकोऽपि लक्षसंख्याकधनलाभाय । पक्षे वेध्यलाभाय ।
विमर्दासहैविचारासहैः । पक्ष आकर्षणासहैः । लूता कीटविशेषस्तत्तन्तुभिरिव बहुभिर्गुणैः
किम् । न किंचित्फलमित्यर्थः ॥
 
नायिकासक्तिं नायके दूती वक्ति--
 
गायति गीते शंसति वंशे वादयति सा विपञ्चीषु ।
पाठयति पञ्जरशुकांस्तव संवादाक्षरं बाला ॥ २११ ॥
 
गायतीति । विपञ्चीषु, पञ्जरशुकानिति च बहुवचनम् । वादितस्य पुनर्वादनेन पाठि-
तस्य पुनः पाठनेन संवादाक्षरे प्रेमातिशयो द्योत्यते । एवं च त्वत्संवादैकाक्षरमपि तस्याः
प्राणप्रियमित्यासक्तिविशेषो व्यज्यते ॥
 
अत्र क्षुद्रस्यापि प्राप्तिः सौम्यतया, न गर्वेण महत इति कश्चिदन्योक्त्या वक्ति--
 
गणयति न मधुव्ययमयमविरतमापिबतु मधुकरः कुमुदम् ।
सौभाग्यमानवान् परमसूयति मणये चन्द्रः ॥ २१२ ॥
 
गणयतीति । मधुकरः कुमुदमापिबतु । सौभाग्यमानवानयं चन्द्रो मधुव्ययं न गण-
यति । परं द्युमणये सूर्यायासूयति । एवं च महतः सूर्यस्य न कुमुदोपभोगस्तत्र चन्द्रस्य
न कार्पण्यं हेतुर्यतो मधुकरस्योपभोगः । किं तु सूर्यगर्व एव यथा तथात्र न गर्वेण प्रा-
प्तिरिति ध्यन्यते ॥
 
सखी नायिकां वक्ति--
 
गुणविधृता सखि तिष्ठसि तथैव देहेन किं तु हृदयं ते ।
हृतममुना मालायाः समीरणेनेव सौरभ्यम् ॥ २१३ ॥