This page has not been fully proofread.

काव्यमाला ।
 
समा । अत एव तुले उचितज्ञासि । कनकं गुञ्जफलैस्तुलयसीदं किम् । एवं चात्रैव

तवोचितज्ञता कुत्र गतेति व्यज्यते ॥

 
कश्चिद्द्वेहिनीसखीं वक्ति-
-
 
गेहिन्या ह्रियमाणं निरुध्यमानं नवोढया पुरतः ।
 

मम नौकाद्वितयार्पितगुण इव हृदयं द्विधा भवति ॥ २०९ ॥

 
गेहिन्येति । गेहिन्या प्रौढया ह्रियमाणम् । न तु हृतमिति भावः । नवोढया पुरतो

निरुध्यमानम् । न तु निरुद्धम् । मम नौकाद्वितयं विपरीतगामि तत्संबन्धिगुण इव

हृदयं द्विःप्रकारं भवति । नौकासमताप्रतिपादनेनोभयत्र रससंबन्धित्वं ध्वन्यते । एवं

चोभयत्र समप्रीतिरहमस्मीति व्यज्यते । 'पद इव' इति क्वचित्पाठः ॥

 
एकत्रैव गुणे दृढा परिचितिरुचिता, न तु सर्वत्र यथाकथंचिदिति कश्चिद्वक्ति-
-
 
गुण आकर्षणयोग्यो धनुष इवैकोऽपि लक्षलाभाय ।

ऌतातन्तुभिरिव किं गुणैर्विमर्दासहैर्बहुभिः ॥ २१० ॥
 

 
गुण इति । आकर्षणाय योग्यः । विचारक्षम इत्यर्थः । पक्षे यथाश्रुतम् । एवं च

दृढत्वं ध्वन्यते । गुणो धनुष इवकोऽपि लक्षसंख्याकधनलाभाय । पक्षे वेध्यलाभाय ।

विमर्दासहैविचारासहैः । पक्ष आकर्षणासहैः । लुता कीटविशेषस्तत्तन्तुभिरिव बहुभिर्गुणैः

किम् । न किंचित्फलमित्यर्थः ॥
 

 
नायिकासक्ति नायके दूती वक्ति-
-
 
गायति गीते शंसति वंशे वादयति सा विपञ्चीषु ।

पाठयति पञ्जरशुकांस्तव संवादाक्षरं बाला ॥ २११ ॥

 
गायतीति । विपञ्चीषु, पञ्जरशुकानिति च बहुवचनम् । वादितस्य पुनर्वादनेन पाठि-

तस्य पुनः पाठनेन संवादाक्षरे प्रेमातिशयो द्योलते । एवं च त्वत्संवादैकाक्षरमपि तस्याः

प्राणप्रियमित्यासक्तिविशेषो व्यज्यते ॥
 

 
अत्र क्षुद्रस्यापि प्राप्तिः सौम्यतया, न गर्वेण महत इति कश्चिदन्योक्त्या वक्ति-
-
 
गणयति न मधुव्ययमयमविरतमापिबतु मधुकरः कुमुदम् ।

सौभाग्यमानवान्परमसूयति मणये चन्द्रः ॥ २१२ ॥
 

 
गणयतीति । मधुकरः कुमुदमापिबतु । सौभाग्यमानवानयं चन्द्रो मधुव्ययं न गण-

यति । परं द्युमणये सूर्यायासूयति । एवं च महतः सूर्यस्य न कुमुदोपभोगस्तत्र चन्द्रस्य

न कार्पण्यं हेतुयतो मधुकरस्योपभोगः । किं तु सूर्यगर्व एव यथा तथात्र न गर्वेण प्रा-

प्तिरिति ध्यन्यते ॥
 

 
सखी नायिकां वक्ति--
 
गुणविधृता सखि तिष्ठसि तथैव देहेन किं तु
हृदयं DF
 
ते ।
 
गुणविधृता सखि तिष्ठसि तथैव देहेन किं तु हृदयं

हृतममुना मालायाः समीरणेनेव सौरभ्यम् ॥ २१३ ॥
 
सखी नायिकां वक्ति-
Sn Gurgahwari Digital Foundation