This page has not been fully proofread.

अपरा गङ्गा शिरसि निहितापि । एवं च बाह्यादरो द्योत्यते । न तिष्ठति । एवं च या
यत्संगतिशालिनी सैव तद्गुणदोषं विजानाति, नान्या कापीति ध्वन्यते ॥
 
चिरप्रत्यागतं पुनर्विदेशं गन्तुकामं नायकं काचिद्वक्ति--
 
गत्वा जीवितसंशयमभ्यस्तः सोढुमतिचिराद्विरहः ।
अकरुण पुनरपि दित्ससि सुरतदुरभ्यासमस्माकम् ॥ २०
 
गत्वेति । जीवितसंदेहं प्राप्यातिचिरकालेन विरहः सोढुमभ्यस्तः । हे अकरुण
करुणाशून्य । एवं च पूर्वमपि करुणाभावो द्योत्यते । अस्माकं सुरतस्य दुरभ्यासं पुन-
रपि दित्ससि दातुमिच्छसि । एवं चातः परं त्वद्विदेशगमनेऽस्माकं प्राणपरित्याग एव भवि-
घ्यतीति व्यज्यते ॥
 
कश्चित् कस्यांश्चिद्वार्तातां वक्ति--
 
गोत्रस्खलितप्रश्नेऽप्युत्तरमतिशीलशीतलं दत्त्वा ।
निःस्वस्य मोघरूपे स्ववपुषि निहितं तया चक्षुः ॥ २०६ ॥
 
गोत्रेति । गोत्रस्खलितेन प्रश्नस्तस्मिन्नपि । एवं चावश्यक्रोधजननयोग्यत्वं द्योयते ।
अत्यन्त स्वभावशीतलमुत्तरं दत्त्वा । निष्फलं रूपं यस्य तस्मिन् । कान्तचित्तवश्यतासं-
पादनसामर्थ्याभावादिति भावः । स्वीयदेहे निःश्वस्य । दुःखोद्रेकादिति भावः । तया
नेत्रं निहितम् । विद्यमानमपीदं रूपादि किमिति न नायकवश्यतासंपादकमिति धियेति
भावः ॥
 
काचित्कां काञ्चिदन्योक्त्या वक्ति--
 
गन्धग्राहिणि शालोन्मीलितनिर्यासनिहित निखिलाङ्गि ।
उपभुक्तमुक्तभूरुहशतेऽधुना भ्रमरि न भ्रमसि ॥ २०७ ॥
 
गन्धेति । आमोदग्राहिणि । एवं च लोलुपत्वचाश्ञ्चल्ये व्यज्येते । शालस्य वृक्षविशे-
षस्योन्मीलन्यो निर्यासस्तत्र निहितसर्वाङ्गि । उन्मीलत्पदेन नवीनदर्शननायकदर्शिता-
तिशयितप्रेमशालिनी त्वमिति द्योत्यते । उपभुक्तमुक्तं वृक्षशतं यया तत्संबुद्धिः । एवं
चैकस्यापि न संगतिस्त्वया निर्वाहितेति ध्वन्यते । भूरुहपदेनाल्पवयस्कसंगतिशालित्वम्,
तेन चातिनीचगुणवत्त्वं ध्वन्यते । भ्रमरि, अधुना न भ्रमसि । एवं च त्वमेतादृशीति
विज्ञाय सर्वैरुपेक्षितेति व्यज्यते ॥
 
केनचिदूनसमतामापादितः कश्चिदन्योक्त्या वक्ति--
 
गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा ।
उचितज्ञासि तुले कि तुलयसि गुञ्जाफलैः कनकम् ॥ २०८ ॥
 
गुरुष्विति । गुरुताशालिषु । पक्षे श्रेष्ठेषु । भिमिलितेषु संयुक्तेषु । पक्षे समागतेषु ।
शिरसाग्रभागेन । पक्षे मस्तकेन । प्रकर्षेण नमस्यवनता भवसि । पक्षे नमस्करोषि
लघुषु न्यूनपरिमाणशालिषु । पक्षे नीचेषु । उन्नतोच्चा । पक्षे साभिमाना । समेषु