This page has not been fully proofread.

काव्यमाला ।
 
एवं च भीतियोग्यत्वम् । जारं चुम्बति । हि यस्मान्मदनबाणो वज्रादधिकः । एवं च

मेघगर्जितविद्युद्भयस्य क्षणिकत्वेनातिशीघ्रनेत्रोन्मीलने द्रष्टव्यमेतैरिति विवेकविधुरत्वं

ध्वन्यते । यद्वा बहूनामपि भयजनके गर्जितादौ स्वयमेका न भीतेति साहसवत्त्वमा वेद्यते ॥

 
मानसंपादनप्रधानशीलां नायिकां सखी वक्ति-
-
 
गृहिणीगुणेषु गणिता विनयः सेवा विधेयतेति गुणाः ।
 

मानः प्रभुता वाम्यं विभूषणं वामनयनानाम् ॥ २०३ ॥

 
गृहिणीति । गृहिणी गृहाधिपत्यशालिनी । तद्गुणेषु विनयादित्रितयं गुणः । वामन-

यनानां दुःशीलानां मानादि विभूषणम् । एवं च यदि गृहाधिपत्यप्रतिष्ठादिकामा त्वमसि

तर्हि मानाद्यपहाय विनयाद्येव कुर्विति ध्वन्यते । यद्वा तव नायिकात्यन्तं प्रभुताकारि-

णीति वादिनं कश्चिद्वक्ति – वामनयनानाम् । त्रिविधानामिति भावः । मध्ये गृहिणीगुणेषु

स्वीयागुणेषु नम्रता, सेवा, आज्ञाकारित्वमिति गुणाः प्रधानभूता गणिताः । एवं चैतद्द्भु-

णवतीनामेव स्वीयात्वमिति व्यज्यते । तेन चैतद्वत्त्वं सर्वस्वीयाविति तद्वत्त्वेन न कापि श्ला-

ध्यतेति । वामनयनानां मध्ये गृहिणीष्वेते गुणा गणिता इत्येव वक्तव्ये गुणेष्विति पदोपादा-

नम्, अन्येऽपि गुणाः सन्ति परं तु तेऽप्रधानभूता इति द्योतयितुम् । मानः, प्रभुता, वा-

म्यमिदं विभूषणम् । एवं चैतत्रितयं कस्यचिदेव भाग्यवतोऽङ्गनायां भवतीति व्यज्यते ।

एवं च विनयादेः सर्वगृहिणीगुणत्वेन विद्यमानत्वेऽपि मानादिविभूषणसत्त्वेन स्वाङ्गना-

यामाधिक्यं व्यज्यते । यद्वा गृहिण्या गृहकर्मव्याटतायाः । किंचिद्गतयौवनाया इति

भावः । विनयादयो गुणा मुख्यत्वेन गणिताः । एवं चैतेषामेव तद्भूषणत्वं व्यज्यते । वाम-

नयनानाम् । यौवनातिशयशालिनीनामिति भावः । मानादयो विभूषणमित्यर्थः । अथवा

सर्वदा नायकस्य विनयसेवादिकमेव करोषि न कदापि किमिति प्रभुतां नाटयसीति वादि-

नीं काचिद्वक्ति--गृहिण्या विनयादयो विभूषणम्, कुटिलनयनानां तु मानादयो विभूषण-

म् । एवं च स्वस्मिन्नत्यन्तसाधुत्वमावेद्यत इत्यर्थः । यद्वा स्वीयागुणेषु विनयादयो मुख्या

गणिता वामनयनानां परकीयादीनां वाम्यादि विभूषणम् । एवं च स्वीयाया एवैतत्करण-

मनुचित मिति भावः । विभूषणपदेन वाम्यादौ गुणव्यवहाराभावो द्योत्यते । अथवा स्त्रीषु

मध्ये गृहिणीनां विनयादयो गुणाः । गुणपदेन नैसर्गित्वं व्यज्यते । भूषणपदेन वाम्यादा-

वचिरावस्थायित्वं ध्वन्यते । एवं चन मया वाम्यादि बहुकालं स्थाप्यम्, अपि तु विन-

यादि विधेयमिति 'बहुकालं मानः कर्तव्यः' इति वादिनीं काचिद्वक्ति ॥

 
भर्तृकृतातिशयलालनेऽपि कथं त्वं दुःखितैवासीति वादिनीं काचिद्वक्ति-
-
 
गुणमान्तरमगुणं वा लक्ष्मीर्गङ्गा च वेद हरिहरयोः ।
 

एका पदेऽपि रमते न वसति निहिता शिरस्यपरा ॥ २०४ ॥

 
गुण मिति । हरिहरयोरान्तरम् । एवं च बहिर्दर्शनायोग्यत्वं ध्वन्यते । गुणं दोषं वा

लक्ष्मीर्गङ्गा च वेद। यत एका लक्ष्मीः पदेऽपि । एवं च बाह्यादराभावो द्योत्यते । रमते ।
 
Sri Gurgeshwari Digital Foundation