2023-03-12 11:11:45 by Pathan Vali Khan
This page has not been fully proofread.
केलिवने गन्तव्यमिति कश्चित् काञ्चिद्वक्ति--
ग्रीष्ममये समयेऽस्मिन् विनिर्मितं कलय केलिवनमूले ।
अलमालवालवलयच्छलेन कुण्डलितमिव शैत्यम् ॥ २० ॥
ग्रीष्मेति । संतापप्रचुरेऽस्मिन्समये विनिर्मितम् । वृक्षसंजीवनार्थमिति भावः ।
क्रीडावृक्षसमूहमूले । वनपदेन सर्वत्र तत्र शैत्यमित्यावेद्यते । अत्यर्थं शैत्यमालवालवल-
यमिषेण । वलयपदं कुण्डलितत्वदार्ढ्याय । कुण्डलितमिव निर्बन्धवत्तां प्रापितमित त्वं
कलय । एवं चैतत्समये क्रीडा तत्रैवोचितेति भावः । यद्वा ग्रीष्मस्वरूपे समये क्रीडा-
वृक्षसमूहमूले विशेषेण निर्मितम् । कलशसेचनादिनेति भावः । अस्मिन् समये । वर्षा-
काल इत्यर्थः । आलवालवलयमिषेणालमत्यर्थं कुण्डलितमिव निरर्थकीकृतमिव कलय ।
मेघोदकेन तन्निर्वाहादिति भावः । अन्यदपि निरर्थकं कुण्डलितं कृतमिति लौकिकम् ।
एवं च वर्षासमयः संवृत्तः, अतस्ते प्रियः समायास्यतीति सखी नायिकां समाश्वासयती-
त्यर्थः । अथवा नायको नायिकां वक्ति – अत्र संबुद्धिपदानुपादानं मदनबाधातिशयं
व्यनक्ति । ग्रीष्मस्वरूपे समये केलिवनमूले विनिर्मितं शैत्यमस्मिन् । पुरोवर्तिनि त्वत्कु-
चमण्डले सतीत्यर्थः । आलवालवलयमिषेणेवात्यन्तं कुण्डलितम् । एवं चैतादृशग्रीष्म-
समये त्वत्कुचमण्डलसमं नान्यदस्ति शीतलतरमिति ध्वन्यते । तेन चातिमनोजानलसं-
तप्तस्य ममेदमेव शरणमिति ॥
मदीयगुणनिबद्धोऽयमिति बुद्ध्या नायं नायकस्त्वया विश्वसनीय इत्यन्योक्त्या काचित्
काञ्चिदुपदिशति--
गुणवद्धचरण इति मा लीलाविहगं विमुञ्च सखि मुग्धे ।
अस्मिन् वलयितशाखे क्षणेन गुणयन्त्रणं त्रुटति ॥ २०१ ॥
गुणबद्धेति । हे सखि । एवं चोपदेशार्हत्वं व्यज्यते । मुग्धे । इत्यनेनाज्ञत्वं द्योत्यते ।
गुणैः सूत्रैः । पक्षे चातुर्यादिभिः । बद्धचरणः । पक्षे बद्धाचरणः । बद्धव्यवहार इति
यावत् । इति हेतोर्लीलाविहगं मा विमुञ्च । निबद्धचरणत्वात् क्वानेन गन्तव्यमिति धियेति
भावः । यतोऽस्मिन् वलयितशाखे वृक्षे गुणैर्यन्त्रणं बन्धनम् । पक्षे स्वाधीनतासंपाद-
नम् । क्षणेन त्रुटति । एवं चात्यन्तसावधानतया स्थेयमित्यावेद्यते । लीलाविहगमित्य-
नेन सर्वस्पृहणीयत्वं ध्वन्यते । तेन चातिसंरक्षणीयत्वम् । विहगपदेनेतस्ततो गमनस्वा-
भाव्यं द्योयते । वलहितशाख इत्यनेन गुणत्रुटनयोग्यत्वम् । पक्षे नायिकासमूहशालि-
त्वं व्यज्यते ॥
मदनवेदनासह्येति काचिद्वक्ति--·
गुरुगर्जिसान्द्रविद्युद्भयमुद्रितकर्णचक्षुषां पुरतः ।
बाला चुम्बति जारं वज्रादधिको हि मदनेषुः ॥ २०२ ॥
गुर्विति। गुरुगजिंश्च निबिडविद्युच्चानयोर्यद्भयं तेनाच्छादित श्रोत्रनेत्राणां पुरतो बाला ।