This page has not been fully proofread.

आर्यासप्तशती ।
 
केलिवने गन्तव्यमिति कश्चित्कांचिद्वक्ति-
-
 
ग्रीष्ममये समयेऽस्मिन्विनिर्मितं कलय केलिवनमूले ।

अलमालवालवलयच्छलेन कुण्डलितमिव शैत्यम् ॥ २० ॥
 

 
ग्रीष्मेति । संतापप्रचुरेऽस्मिन्समये विनिर्मितम् । वृक्षसंजीवनार्थमिति भावः ।

क्रीडावृक्षसमूहमूले । वनपदेन सर्वत्र तत्र शैत्यमित्यावेद्यते । अत्यर्थे शैत्यमालवालवल-

यमिषेण । वलयपदं कुण्डलितत्वदाय । कुण्डलितमिव निर्बन्धवत्तां प्रापितमित त्वं

कलय । एवं चैतत्समये क्रीडा तत्रैवोचितेति भावः । यद्वा ग्रीष्मस्वरूपे समये क्रीडा-

वृक्षसमूहमूले विशेषेण निर्मितम् । कलशसेचनादिनेति भावः । अस्मिन्समये । वर्षा-

काल इत्यर्थः । आलवालवलय मिषेणालमत्यर्थे कुण्डलितमिव निरर्थकीकृतमिव कलय ।

मेघोदकेन तन्निर्वाहादिति भावः । अन्यदपि निरर्थकं कुण्डलितं कृतमिति लौकिकम् ।

एवं च वर्षासमयः संवृत्तः, अतस्ते प्रियः समायास्यतीति सखी नायिकां समाश्वासयती-

त्यर्थः । अथवा नायको नायिकां वक्ति – अत्र संबुद्धिपदानुपादानं मदनबाधातिशयं

व्यनक्ति । ग्रीष्मस्वरूपे समये केलिवनमूले विनिर्मितं शैत्यमस्मिन् । पुरोवर्तिनि वत्कु-

चमण्डले सतीत्यर्थः । आलवालवलयमिषेणेवात्यन्तं कुण्डलितम् । एवं चैतादृशग्रीष्म-

समये त्वत्कुचमण्डलसमं नान्यदस्ति शीतलतरमिति ध्वन्यते । तेन चातिमनोजानलसं-

तप्तस्य ममेदमेव शरणमिति ॥
 

 
मदीयगुणनिबद्धोऽयमिति बुद्ध्या नायं नायकस्त्वया विश्वसनीय इत्यन्योक्त्या काचि-

त्कांचिदुपदिशति-
-
 
गुणवद्धचरण इति मा लीलाविहगं विमुञ्च सखि मुग्धे ।

अस्मिन्वलयितशाखे क्षणेन गुणयन्त्रणं त्रुटति ॥ २०१ ॥

 
गुणबद्धेति । हे सखि । एवं चोपदेशार्हत्वं व्यज्यते । मुग्धे । इत्यनेनाज्ञत्वं द्योत्यते ।

गुणैः सूत्रैः । पक्षे चातुर्यादिभिः । बद्धचरणः । पक्षे बद्धाचरणः । बद्धव्यवहार इति

यावत् । इति हेतोर्लीलाविहगं मा विमुञ्च । निबद्धचरणत्वात्क्कानेन गन्तव्यमिति धियेति

भावः । यतोऽस्मिन्वलयितशाखे वृक्षे गुणैर्यन्त्रणं बन्धनम् । पक्षे स्वाधीनतासंपाद-

नम् । क्षणेन त्रुटति । एवं चात्यन्तसावधानतया स्थेयमित्यावेद्यते । लीलाविहगमित्य-

नेन सर्वस्पृहणीयत्वं ध्वन्यते । तेन चातिसंरक्षणीयत्वम् । विहगपदेनेतस्ततो गमनखा-

भाव्यं द्योयते । वलहितशाख इत्यनेन गुणत्रुटनयोग्यत्वम् । पक्षे नायिकासमूहशालि-

त्वं व्यज्यते ॥
 

 
मदनवेदनासत्येति काचिद्वक्ति-
-·
 

 
गुरुग जिंसान्द्रविद्युद्भयमुद्रितकर्णचक्षुषां पुरतः ।
 
HADE
 

बाला चुम्बति जारं वज्रादधिको हि मदनेषुः ॥ २०२ ॥

 
गुर्विति। गुरुगजिंश्च निबिडवियुच्चान योर्यद्भयं तेनाच्छादित श्रोत्रनेत्राणां पुरतो बाला ।
 
Sn Gurgeshwari Diginal Foundation