This page has been fully proofread once and needs a second look.

द्रस्य मुखाद्बहिरेव निःसरतीति व्यज्यत इति वार्थः । एवं च यदि ते महत्त्वापेक्षा, तर्हि
न कदापि कस्यापि निन्दा विधेयेति द्योत्यते । दुर्वादे गरलसमताप्रतिपादनेन दाहकत्वा-
तिशयो द्योत्यते ॥
 
कस्याश्चिद्वार्तां काचिद्वक्ति--
 
गृहपतिपुरतो जारं कपटकथाकथितमन्मथावस्थम् ।
प्रीणयति पीडयति च बाला निःश्वस्य निःश्वस्य ॥ १९७ ॥
 
गृहपतीति । गृहपतिपदेन गृहव्यासङ्गप्रवणत्वेन प्रतारणार्हत्वं ध्वन्यते । तत्पुरतः । 'ध-
नविशेषाप्राप्त्या मनसिजसंतापकदर्थितोऽहं भवद्विधद्विजराजदर्शनमपि गृहीतुं नोत्सहे,
केवलं गरलगिलनमेवाश्रित्येदानीं संसारविरतिं विधास्ये' इत्यादिकपटवार्ताभिः कथित-
स्वमन्मथावस्थं जारम् । बाला षोडशवार्षिकी । एवं चोन्मादवत्त्वं ध्वन्यते । पतिपुरत
इदमप्यत्रान्वेति । निःश्वस्य । तथाविधदारिद्र्यश्रवणानुकम्पयेति भावः । अथ च 'तावत्प
र्यन्तं सुरतरङ्गं विधास्ये, यावत्ते श्रमातिशयाच्छ्वासोच्छ्वासातिशयो भावी' इति कथनेन,
अथवा 'श्वासपरित्यागेन विरहेण तव प्राणापगमे ममापि प्राणा गमिष्यन्ति' इति प्रेमाति-
शयप्रदर्शनेन प्रीणयति । तथाविधचेष्टासञ्जितरतातिशयानुस्मारणेन पीडयति च । एवं
च स्त्रीधूर्तत्वं केनापि विज्ञातुमशक्यमिति ध्वन्यते ॥
 
रतप्रावीण्यविहीनं पुंस्त्वाभिमानशालिनं काचिदन्योक्त्या वक्ति--
 
गतिगञ्जितवरयुवतिः करी कपोलौ करोतु मदमलिनौ ।
मुखबन्धमात्रसिन्धुर लम्बोदर किं मदं वहसि ॥ १९८ ॥
 
गतीति । गत्या गमनविशेषेण गञ्जिता तिरस्कृता । पक्षे ज्ञानेन । रतिनैपुण्येनेत्यर्थः ।
गञ्जिता रतिविजयेन स्वाधीनीकृता । वरा गतिविशेषशालितया । पक्षे कामकेलिकोविदा-
त्वेन । युवतिर्येन । मुखबन्धमात्रेण । एवं च करिकार्यसत्त्वाभावो व्यज्यते । सिन्धुर
गज । लम्बोदर । एवं च गतिविशेषशून्यत्वं व्यज्यते । पक्षे लम्बोदरपदेनोत्थानासाम-
र्थ्यमभिव्यज्यते । किं मदं वहसि । एवं च पुरुषचिह्नसत्त्वमात्रेण न गर्वस्त्वया विधेय
इति द्योत्यते । यद्वान्यकामुकसमताकारिणं कंचन काचिदन्योक्त्या वक्ति । एवं च त-
त्तुल्यं त्वयि न सामर्थ्यमिति व्यज्यते ॥
 
काचित् कस्याश्चिद्वार्तां वक्ति--
 
गेहिन्याः शृण्वन्ती गोत्रस्खलितापराधतो मानम् ।
स्निग्धां प्रिये सगर्वां सखीषु बाला दृशं दिशति ॥ १९९ ॥
 
गेहिन्या इति । श्रेष्ठपत्न्या नामस्खलनरूपापराधजन्यं मानं शृण्वन्ती । अत्र नुमाग -
मश्चिन्त्यः । बाला । प्रिये स्निग्धाम् । स्वासक्तिज्ञानजनितप्रेमवत्तयेति भावः । सखीषु
सगर्वाम् । ईदृश्यहं गुणशालिनीति धियेति भावः । यद्वैतासां प्रिया नैतास्वेतादृशास-
क्तिमन्त इति धियेति भावः ॥