This page has not been fully proofread.

काव्यमाला ।
 
[^१]श्रीगोवर्धनाचार्यविरचिता
आर्यासप्तशती ।'
 
[^२]अनन्तपण्डितकृतया व्यङ्ग्यार्थदीपनाख्यया व्याख्ययानुगता ।
 
ग्रन्थारम्भव्रज्या ।
 
सर्वे साधुजनाः सदायतहृदा सत्संप्रदायादलं

यज्ज्ञानाय कणादगौतममतान्यालोच्य तत्त्वार्थदान् ।
वेदान्तान्परिशीलयन्ति रहसि खानन्दकन्दाकरं

वन्दे तं जगदीश्वरं दयितया सानन्दमालिङ्गितम् ॥

यत्पादाम्बुजमब्जभूप्रभृतयो देवाः सदैवान्तरे

ध्यायन्ति ग्लपयन्ति दुःखनिवहं लीलामनुष्याकृतिम् ।
फुल्लेन्दीवरमित्त्रनेत्रमतसीपुष्पावभासं लस-
च्छ्रीरामं कलयामि चेतसि चिरं चैतन्यमात्रात्मकम् ॥

पञ्चाशद्वर्णभेदैरपरिमिततरैरर्थजातिश्च युक्ता

नानालंकाररम्या गणितगुणगणा साधुवृत्तैरुपेता ।
वाक्सृष्टिर्यत्प्रसादात्प्रसरति रसनोपान्तदेशे निमेषा-
न्नित्यं चित्तेऽनुरक्ते वसतु मम सुखं भारती सा रसाढ्या ॥

गोवर्धनोक्तिसुखदाननिदान मे तद्व्यङ्ग्यार्थदीपनमनल्पचमत्कृतीनाम् ।
भूयादनन्तविबुधेन विधीयमानं प्रीत्यै सदा सकलपण्डितमण्डलीनाम् ॥

-----------------------------------------------------------------------------------------
[^
१.] गोवर्धनाचार्यसमयस्त्वद्यापि सभ्यङ् ज्ञायते. परं त्वयं गीतगोविन्दकर्तुर्जयदेवा-
त्प्राचीनस्तत्समकालीनो वेति वक्तुं शक्यते, यतो जयदेवेन गीतगोविन्दप्रारम्भे 'शृङ्गा-
रोत्तरसत्प्रमेयरचनैराचार्यगोवर्धनस्पर्धी कोऽपि न विश्रुतः' इत्युक्तमस्ति. जयदेवकविश्च
वङ्गदेशाधिपस्य बल्लालसेनसूनोर्लक्ष्मणसेनस्य सभायामासीदिति श्रीसनातन गोस्वामिनां
मतम्. 'गोवर्धनश्च शरणो जयदेव उमापतिः । कविराजश्च रत्नानि समितौ लक्ष्मणस्य
च ॥" इत्ययं श्लोको लक्ष्मणसेनसभागृहद्वारोपरि शिलायामुत्कीर्ण आसीत्, तस्मा-
गोवर्धनजयदेवादयः सर्वेऽपि लक्ष्मणसेनसभायामासन्निति केचित्., लक्ष्मणसेनश्च ख्रि-
स्तसंवत्सरस्यैकादशशतकसमाप्तिपर्यन्तं वङ्गदेशं पालयामासेति केचिदितिहासविदः,
.
[^
२.] सप्तशतीटीकाकारोऽनन्तपण्डितस्तु टीकासमाप्तौ स्वसमयं लिखितवानेव.
 
Sri Gargokwari Digital Foundation
 
0