This page has not been fully proofread.

काव्यमाला ।
 

 
श्रीगोवर्धनाचार्यविरचिता

आर्यासप्तशती ।'
 

 
अनन्तपण्डितकृतया व्यङ्ग्यार्थदीपनाख्यया व्याख्ययानुगता ।
 

 
ग्रन्थारम्भव्रज्या ।
 

 
सर्वे साधुजनाः सदायतहृदा सत्संप्रदायादलं
 

 
यज्ज्ञानाय कणादगौतममतान्यालोच्य तत्त्वार्थदान् ।

वेदान्तान्परिशीलयन्ति रहसि खानन्दकन्दाकरं
 

 
वन्दे तं जगदीश्वरं दयितया सानन्दमालिङ्गितम् ॥

यत्पादाम्बुजमब्जभूप्रभृतयो देवाः सदैवान्तरे
 

 
ध्यायन्ति ग्लपयन्ति दुःखनिवहं लीलामनुष्याकृतिम् ।

फुल्लेन्दीवरमित्रनेत्रमतसीपुष्पावभासं लस-

च्छ्रीरामं कलयामि चेतसि चिरं चैतन्यमात्रात्मकम् ॥

पञ्चाशद्वर्णभेदैरपरिमिततरैरर्थजातिश्च युक्ता
 

 
नानालंकाररम्या गणितगुणगणा साधुवृत्तैरुपेता ।

वाक्सृष्टिर्यत्प्रसादात्प्रसरति रसनोपान्तदेशे निमेषा-

नित्यं चित्तेऽनुरक्ते वसतु मम सुखं भारती सा रसाढ्या ॥

गोवर्धनोक्तिसुखदाननिदान मे तद्व्यङ्गयार्थदीपनमनल्पचमत्कृतीनाम् ।

भूयादनन्तविबुधेन विधीयमानं प्रीत्यै सदा सकलपण्डितमण्डलीनाम् ॥
 

 
१. गोवर्धनाचार्यसमयस्त्वद्यापि सभ्यङ्ग ज्ञायते. परं त्वयं गीतगोविन्दकर्तुर्जयदेवा-

त्प्राचीनस्तत्समकालीनो वेति वक्तुं शक्यते, यतो जयदेवेन गीतगोविन्दप्रारम्भे 'शृङ्गा-

रोत्तरसत्प्रमेयरचनैराचार्यगोवर्धनस्पर्धी कोऽपि न विश्रुतः' इत्युक्तमस्ति. जयदेवकविश्च

वङ्गदेशाधिपस्य बल्लालसेनसूनोर्लक्ष्मणसेनस्य सभायामासीदिति श्रीसनातन गोस्वामिनां

मतम्. 'गोवर्धनश्च शरणो जयदेव उमापतिः । कविराजश्च रत्नानि समितौ लक्ष्मणस्य

च ॥" इत्ययं श्लोको लक्ष्मणसेनसभागृहद्वारोपरि शिलायामुत्कीर्ण आसीत्, तस्मा-

गोवर्धनजयदेवादयः सर्वेऽपि लक्ष्मणसेनसभायामासन्निति केचित्. लक्ष्मणसेनश्च ख्रि-

स्तसंवत्सरस्यैकादशशतकसमाप्तिपर्यन्तं वङ्गदेशं पालयामासेति केचिदितिहासविदः,

२. सप्तशतीटीकाकारोऽनन्तपण्डितस्तु टीकासमाप्तौ खसमयं लिखितवानेव.
 

 
Sri Gargokwari Digital Foundation
 

 
0