This page has not been fully proofread.

खकारव्रज्या ।
 
सन्मैत्रीं स्तौति--
 
खलसख्यं प्राङ्मधुरं वयोऽन्तराले निदाघदिनमन्ते ।
एकादिमध्यपरिणतिरमणीया साधुजनमैत्री ॥ १९३ ॥
 
खलसख्यमिति । प्राक्प्रथमतः । अन्तराले मध्ये वयः । तारुण्यमित्यर्थः । अन्ते
सायं ग्रीष्मदिनम् । मधुरं मनोहारि । एका । न्यान्यदेतत्सममिति भावः । एवं च सत्सं-
गतिरेव विधेयेति ध्वन्यते ॥
 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता खकारव्रज्या ।
--------------------------
 
गकारव्रज्या ।
 
केनचिद्गुणवता दरिद्रेण संयोजयितुं काचित्कां काञ्चिद्वक्ति--
 
गुणमधिगतमपि धनवान्न चिरान्नाशयति रक्षति दरिद्रः ।
मज्जयति रज्जुमम्भसि पूर्णः कुम्भः सखि न तुच्छः ॥ १९४ ॥
 
गुणमिति । हे सखि, प्राप्तमपि । एवं चाधिकार्जनं दूरापास्तमिति भावः । दरिद्रो
रक्षत्यपि । एवं च नवीनमर्जयतीति भावः । तुच्छोऽपरिपूर्णः । एवं च दारिद्र्द्येऽपि
गुणवत्त्वादेतत्संगतिरेवोचितेति व्यज्यते । यद्वा साधारणोक्तिरियम् ॥
 
महदङ्गीकारेणैव महत्सविधे गमनमुचितम्, अन्यथा नेति कश्चित्कं कञ्चिचिदुपदिशति--
 
गुरुरपि लघूपनीतो न निमज्जति नियतमाशये महतः ।
वानरकरोपनीतः शैलो मकरालयस्येव ॥ १९
 
गुरुरिति । आशयेऽन्तःकरणे, मध्ये च । मकारालयपदेन स्वल्पस्याप्यन्तर्वसतियो-
ग्यत्वमिति व्यज्यते । एवं चैतादृशेऽप्यत्यन्तमहतो लध्घ्वङ्गीकरणान्नात्यन्त परिचितिरिति
व्यज्यते ॥
 
कदापि कस्याप्यवाच्यं न वाच्यमिति कश्चित्कं कञ्चिदुपदिशति--
 
गौरीपतेर्गरीयो गरलं गत्वा गले जीर्णम् ।
जीर्यति कर्णे महतां दुर्वादो नाल्पमपि विशति ॥ १९६ ॥
 
गौरीपतेरिति । महत्तरं गरलं गत्वा । एवं च तद्ब्ग्रहणे नोद्यमो गौरीपतेरिति भावः ।
एवं च महद्भिः परदोषश्रवणे नोद्यमः क्रियत इति किं वक्तव्यम् । तज्जातं तदैव नश्य-
तीति व्यज्यते । जगदीश्वरस्य कण्ठे जीर्णम् । एवं च बहिर्निःसरणानर्हत्वं व्यज्यते । म-
हतां कर्णे दुर्वादो जीर्यति । अल्पमपि न प्रविशति । एवं च श्रवणसम समयमेव दुर्वादो
नश्यति, न सतां स्वल्पमपि हृदयमवतरतीति भावः । अल्पं नीचपुरुषं विशत्यपि, न
जीर्तीति किमु वाच्यमिति भावः । एवं च महन्मुखान्न कस्यचिद्दूषणं निःसरति, क्षु-