This page has not been fully proofread.

आर्यासप्तशती ।
 
खकारव्रज्या ।
 

 
सन्मैत्रीं स्तौति -
 
--
 
खलसख्यं प्राङ्मधुरं वयोऽन्तराले निदाघदिनमन्ते ।

एकादिमध्यपरिणतिरमणीया साधुजनमैत्री ॥ १९३ ॥
 
८१
 

 
खलसख्यमिति । प्राक्प्रथमतः । अन्तराले मध्ये वयः । तारुण्यमित्यर्थः । अन्ते

सायं ग्रीष्मदिनम् । मधुरं मनोहारि । एका । न्यान्यदेतत्सममिति भावः । एवं च सत्सं-

गतिरेव विधेयेति ध्वन्यते ॥
 

 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता खकारव्रज्या ।
 

--------------------------
 
गकारव्रज्या ।
 

 
केनचिद्गुणवता दरिद्रेण संयोजयितुं काचित्कांचिद्वक्ति
 
--
 
गुणमधिगतमपि धनवान्न चिरान्नाशयति रक्षति दरिद्रः ।

मज्जयति रज्जुमम्भसि पूर्णः कुम्भः सखि न तुच्छः ॥ १९४ ॥

 
गुणमिति । हे सखि, प्राप्तमपि । एवं चाधिकार्जनं दूरापास्तमिति भावः । दरिद्रो

रक्षत्यपि । एवं च नवीनमर्जयतीति भावः । तुच्छोऽपरिपूर्णः । एवं च दारिद्र्द्येऽपि

गुणवत्वादेतत्संगतिरेवोचितेति व्यज्यते । यद्वा साधारणोक्तिरियम् ॥
 

 
महदङ्गीकारेणैव महत्सविधे गमनमुचितम्, अन्यथा नेति कश्चित्कंचिदुपदिशति
--
 
गुरुरपि लघूपनीतो न निमज्जति नियतमाशये महतः ।

वानरकरोपनीतः शैलो मकरालयस्येव ॥ १९९ ॥
 

 
गुरुरिति । आशयेऽन्तःकरणे, मध्ये च । मकारालयपदेन स्वल्पस्याप्यन्तर्वसतियो-

ग्यत्वमिति व्यज्यते । एवं चैतादृशेऽप्यत्यन्तमहतो लध्वङ्गीकरणान्नात्यन्त परिचितिरिति

व्यज्यते ॥
 

 
कदापि कस्याप्यवाच्यं न वाच्यमिति कश्चित्कंचिदुपदिशति-
-
 
गौरीपतेर्गरीयो गरलं गत्वा गले जीर्णम् ।
 

जीर्यति कर्णे महतां दुर्वादो नाल्पमपि विशति ॥ १९६ ॥
 

 
गौरीपतेरिति । महत्तरं गरलं गत्वा । एवं च तद्ब्रहणे नोद्यमो गौरीपतेरिति भावः ।

एवं च महद्भिः परदोषश्रवणे नोद्यमः क्रियत इति किं वक्तव्यम् । तजातं तदैव नश्य-

तीति व्यज्यते । जगदीश्वरस्य कण्ठे जीर्णम् । एवं च बहिनिःसरणानर्हत्वं व्यज्यते । म-

हतां कर्णे दुर्वादो जीर्यति । अल्पमपि न प्रविशति । एवं च श्रवणसम समयमेव दुर्वादो

नश्यति, न सतां स्वल्पमपि हृदयमवतरतीति भावः । अल्पं नीचपुरुषं विशत्यपि, न

जीर्थतीति किमु वाच्यमिति भावः । एवं च महन्मुखान्न कस्यचिद्दूषणं निःसरति, क्षु-
Sri Gurgeshwari Digital Foundation
 
आ० स०८