2023-03-12 06:54:16 by Pathan Vali Khan
This page has not been fully proofread.
ण्डकपिटकतालकफलककल्कपुलाकानि नपुंसके च' इति पाणिनिलिङ्गानुशासनात् कण्ट-
कशब्दो नपुंसकः । को भवति । सुधायामरुचिः कस्योदेति । न कस्यापीत्यर्थः । एवं
चैतादृश्याः कथं मया निन्दा विधेयेति व्यज्यते ॥
संकेते गत्वा तत्र नायिकामप्राप्य गतं मया तत्रेति ज्ञापनाय चूताङ्कुरमादाय नायि-
कादृग्विषयं नायकं प्रति नायिकासखी वक्ति--
कोपवति पाणिलीलाचञ्चलचूताङ्कुरे त्वयि भ्रमति ।
करकम्पितकरवाले स्मर इव सा मूर्छिता सुतनुः ॥ १९० ॥
कोपवतीति । कोपवति । कथं न समागतेयमिति धियेति भावः । स्मरविशेषणमप्ये-
तत् । पापौ लीलया विलासेन । एवं च लोकान्यथाबुद्धिनिरासकत्वं ध्वन्यते । चञ्चल
आम्राङ्कुरो यस्मिन् । करे कम्पितः । मारणोद्यमादिति भावः । खड्गो येन तस्मिन् स्मर
इव वयि भ्रमति सति। ज्ञापनार्थमिति भावः । सा सुतनुः । एवं चोपेक्षानर्हत्वं ध्वन्यते।
मूर्छिता । एवं चैतस्या अतिदुःखं जातमिति व्यज्यते । तेन चायमपराधः क्षन्तव्य इति ॥
कुलवत्याः सुरते गोत्रस्खलनमनुचितं तवेति वादिनीं सखीं नायको वक्ति–
कौलीन्यादलमेनां भजामि न कुलं स्मरः प्रमाणयति ।
तद्भावनेन भजतो मम गोत्रस्खलनमनिवार्यम् ॥ १९१ ॥
कौलीन्यादिति । अलमत्यर्थथं कौलीन्यात् कुलीनत्वात् । 'कौलीनात्' इति पाठे तु कौ-
लीनाल्लोकवादात् । 'स्यात् कौलीनं लोकवादे' इत्यमरः । एनां भजामि । एतस्याः परि-
त्यागेऽत्यन्तलोकनिन्दाभीतिरिति भावः । स्मरः कुलं न प्रमाणयति । एवं च सगुणत्व-
मपेक्षितमिति भावः । तस्या भावनया सेयमिति बुद्ध्या भजतः । एनामिति भावः । मम
नामस्खलनम् । 'गोत्रं नाम्नि कुलेऽपि च' इति विश्वः । निवारयितुमशक्यम् ॥
कस्याश्चिन्नायिकायाः पतिमवलोक्य भीतंकंकञ्चन नायकं दूती वक्ति--
कुत इह कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि ।
तृणबाणस्तृणधन्वा तृणघटितः कपटपुरुषोऽयम् ॥ १९२ ॥
कुत इति । हे कुरङ्गशावक । शावकपदेनाज्ञत्वं व्यज्यते । तेन च भीतियोग्यत्वम् ।
इह केदारे शालिमञ्जरीं कुतस्त्यजसि । नन्वत्रास्ति रक्षक इत्यत्राह--तृणरूपो बाणो यस्य,
तृणरूपधनुष्मान्, तृणविहितो मिथ्यापुरुषः । एवं चाक्षमादस्माद्भीतिमपहाय यथेच्छं
त्वमत्रागच्छेति द्योयते । यद्वा नायं पुरुषः किं तु तद्वेषधारीति भयमपास्य त्वमत्रा-
गच्छेति ॥
इत्यनन्तपण्डितकृतगोवर्धन सप्तशती व्यङ्ग्यार्थदीपनया समेता ककारव्रज्या ।
---------------------------
कशब्दो नपुंसकः । को भवति । सुधायामरुचिः कस्योदेति । न कस्यापीत्यर्थः । एवं
चैतादृश्याः कथं मया निन्दा विधेयेति व्यज्यते ॥
संकेते गत्वा तत्र नायिकामप्राप्य गतं मया तत्रेति ज्ञापनाय चूताङ्कुरमादाय नायि-
कादृग्विषयं नायकं प्रति नायिकासखी वक्ति--
कोपवति पाणिलीलाचञ्चलचूताङ्कुरे त्वयि भ्रमति ।
करकम्पितकरवाले स्मर इव सा मूर्छिता सुतनुः ॥ १९० ॥
कोपवतीति । कोपवति । कथं न समागतेयमिति धियेति भावः । स्मरविशेषणमप्ये-
तत् । पापौ लीलया विलासेन । एवं च लोकान्यथाबुद्धिनिरासकत्वं ध्वन्यते । चञ्चल
आम्राङ्कुरो यस्मिन् । करे कम्पितः । मारणोद्यमादिति भावः । खड्गो येन तस्मिन् स्मर
इव वयि भ्रमति सति। ज्ञापनार्थमिति भावः । सा सुतनुः । एवं चोपेक्षानर्हत्वं ध्वन्यते।
मूर्छिता । एवं चैतस्या अतिदुःखं जातमिति व्यज्यते । तेन चायमपराधः क्षन्तव्य इति ॥
कुलवत्याः सुरते गोत्रस्खलनमनुचितं तवेति वादिनीं सखीं नायको वक्ति–
कौलीन्यादलमेनां भजामि न कुलं स्मरः प्रमाणयति ।
तद्भावनेन भजतो मम गोत्रस्खलनमनिवार्यम् ॥ १९१ ॥
कौलीन्यादिति । अलमत्यर्
लीनाल्लोकवादात् । 'स्यात् कौलीनं लोकवादे' इत्यमरः । एनां भजामि । एतस्याः परि-
त्यागेऽत्यन्तलोकनिन्दाभीतिरिति भावः । स्मरः कुलं न प्रमाणयति । एवं च सगुणत्व-
मपेक्षितमिति भावः । तस्या भावनया सेयमिति बुद्ध्या भजतः । एनामिति भावः । मम
नामस्खलनम् । 'गोत्रं नाम्नि कुलेऽपि च' इति विश्वः । निवारयितुमशक्यम् ॥
कस्याश्चिन्नायिकायाः पतिमवलोक्य भीतं
कुत इह कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि ।
तृणबाणस्तृणधन्वा तृणघटितः कपटपुरुषोऽयम् ॥ १९२ ॥
कुत इति । हे कुरङ्गशावक । शावकपदेनाज्ञत्वं व्यज्यते । तेन च भीतियोग्यत्वम् ।
इह केदारे शालिमञ्जरीं कुतस्त्यजसि । नन्वत्रास्ति रक्षक इत्यत्राह--तृणरूपो बाणो यस्य,
तृणरूपधनुष्मान्, तृणविहितो मिथ्यापुरुषः । एवं चाक्षमादस्माद्भीतिमपहाय यथेच्छं
त्वमत्रागच्छेति द्योयते । यद्वा नायं पुरुषः किं तु तद्वेषधारीति भयमपास्य त्वमत्रा-
गच्छेति ॥
इत्यनन्तपण्डितकृतगोवर्धन
---------------------------